________________
544
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[जडद्रव्य
सर्वार्थसिद्धिः प्राणयोस्सहपाठात् । न चात्र प्राणशब्दोऽन्यार्थः; अबाधे (अ)प्रसिद्धत्यागायोगात् । न च वायुसामान्य प्राणशब्दप्रसिद्धिः! जगत्प्राण इति समाख्या तु न तदंशस्य शक्तिं गमयेत् । देहावच्छेदमात्रेण विशेषात् पृथगुक्तिरिति चेन्न; तत्सृष्टेः
आनन्ददायिनी तत्सहपठितवायुत्वा(न)तिरिक्त(वायु)वृत्तिप्रवृत्तिनिमित्तकशब्दबोध्यत्वात् । प्राणशब्दो वायुत्वातिरिक्त(धर्म)प्रवृत्तिनिमित्तकः तत्सहप्रयोगविषयत्वात् फूत्कारमन आ(फूत्कार उदका)दि(शब्द)वदिति विशेषसिद्धरित्यर्थः । ननु (साङ्खयोक्तरीत्या) वाय्वन्यत्वमेवास्तु ! तत्राह--न चेति । प्राणो वायुरिति प्रसिद्धेर्घटो द्रव्यमिति प्रसिद्धिवद्वाधकाभावात् प्रत्यक्षतो वायुत्वस्योपलम्भाच्चेति भावः । ननु वायुप्राणशब्दौ पर्यायावेव ; अत एव 'जगत्प्राणसमीरणाः' इति नामानुशासनं; सहपाठश्च कथञ्चिन्नेय इत्यत्राह-न च वायुसामान्य इति । बाह्यवायौ प्राणशब्दप्रयोगाभावात् नामानुशासनस्याश्वकर्णादिवत् विशिष्टशक्तिग्राहकस्यावयवशक्तिप्राहकत्वाभावान्न पर्यायत्वमिति भावः । ननु प्राणशब्दस्य देहावच्छिन्नत्वाकारेण लक्षणया प्रयोगोऽस्तु ; तथा च न भेदसिद्धिरिति शङ्कते-देहावच्छेदेति । तत्सृष्टेरिति-तत्सृष्टयुक्तरित्यर्थः । वायुसामान्यसृष्टयैव तत्सृष्टेरुक्तत्वादिति भावः । न च सिद्धान्तेऽपि प्रयोजनमान्द्यम् ; प्राणत्वस्य विशेषतया तदवच्छेदेनोत्पत्तेर्ज्ञाप्यत्वात् । न चैवं शरीरावच्छिन्नत्वेनात्रापि ज्ञाप्यभेदः ; शरीरावच्छिन्नवायुत्वस्य वायुत्वशरीराद्यतिरिक्तत्वाभावेन तदतिरिक्तज्ञाप्याभावात् । ननु क्रियैव प्राणः ; तथा च पृथगुक्तिर्यु(क्तैव)ज्यत एव । न च प्राणो वायुरिति