SearchBrowseAboutContactDonate
Page Preview
Page 612
Loading...
Download File
Download File
Page Text
________________ सरः] प्राणस्य महत्तत्वविशेषरूपतानिरासः 543 तत्वमुक्ताकलापः न प्राणो वायुमात्रं सह परिपठनात् सर्वार्थसिद्धिः अथ राजसमहान् प्राण इति वदतः प्रतिवक्तुं प्राणस्य वायुविशेषतां विवक्षुः तत्र विशेषापहवं प्रतिषेधति-न प्राण इति । वायुत्वप्रसिद्धयाऽसौ वायुमात्रमिति चेन; सर्वत्र सामान्यप्रसिद्धया विशेषत्यागप्रसङ्गात् । अयोग्ये च नानुपलम्भवाधः । श्रुतिप्राप्तं हेतुमाह-सहेति । 'एतस्माजायते प्राणो मनस्सन्द्रियाणि च । खं वायुयोतिरापः' इति सृष्टिवाक्ये वायु -आनन्ददायिनी राजसमहान् प्राणो देहं धत्ते वाय्वधिष्ठातेति साङ्ख्यपक्षं वायुमानं तक्रिया वा प्राण इति योगपक्षं आकाशादि पञ्चकं रजःप्रकृतिक (शादिःरजःप्रकृतिकः) प्राण इति माय्येक(यिमतैक)देशिपक्षं च प्रसङ्गसङ्गत्या निराकरोतीत्याह–अथेति । विशेषो-वायुत्वावान्तरजातिः । अयं प्राणो वायुमात्रं वायुत्वप्रसिद्धिमत्त्वात् ; यद्यत्प्रसिद्धिमत् तत्तन्मात्रं यथा समुद्रजलम् । जल(मात्र)प्रसिद्धिमज्जलमात्रमित्यनुमानमभिप्रेत्य व्या(व्यभिचारमाह-)चष्टे-सर्वत्रेति । तेजस्त्वेन प्रसिद्धवढ्यादेविशेषता न स्यादिति भावः । विशेषत्वस्य प्राणादावनुपलम्भबाध इत्यत्राहअयोग्ये चेति । ननु बाधकाभावमात्रान्नानुपलम्भ(लब्धि) विशेषसिद्धिरित्यत्राह- श्रुतीति । सहपाठो हि नानार्थानां सामान्यविशेषार्थानां बा दृष्टो न पर्यायाणां ; अतो न वायुशब्दपर्यायता प्राणशब्दस्येति । प्राणो वायुत्वातिरिक्तवायुत्व (तत्व) व्याप्यप्रवृत्तिनिमित्तकशब्दबोध्यः
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy