________________
542
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
जडद्रव्य
तत्वमुक्ताकलापः तबाह्ये व्याप्तिरिष्टा यदि सततगतेरप्यसावस्तु बाह्ये।।
सर्वार्थसिद्धिः सङ्ख्यादेरग्रहः स तोयादावपि समः । प्रसङ्गस्य व्याप्तिभङ्गमा(ङ्गस्याव्याप्तिमप्या)ह-नचेति । आत्मनि तावद्यद्यप्यहमेक इति धीस्स्यात् । तथापि तत्परिमाणं न गृह्यते । अत एव ह्यणुत्वविभुत्वदेहपरिमाणत्वसंदेहः । एवमन्यदपि । तथा बाह्येध्वपि द्रव्योपलम्भेऽपि द्वित्वत्रित्वाद्यग्रहो दृष्टः । उक्तव्यतिरितेष्वयं नियम इति शङ्कते--तद्बाह्य इति । सान्तासमाहसततगतरिति । यथादर्शनं व्यवस्था त्वयाऽपि दुस्त्यजेति भावः॥
वायुप्रत्यक्षत्वम्.
आनन्ददायिनी भाव उच्यते । तोयादिवत् सजातयिसंमेलनस्य प्रतिबन्धकत्वात् राशिवन्याद्यवयव(न्यागत)व्रीहिवृक्षादिगतसंख्यादिप्रत्यक्षव (ख्याद्यप्रत्यक्षत्वा )दित्यर्थः । अनिष्टप्रसङ्गरूपाङ्गहानिमुक्ता अङ्गान्तरहानिमप्याह-प्रसङ्गस्येति । नन्वह(न्वात्मन्यह)मेक इति संख्याया ग्रहणात्तत्र व्यभिचाराभावात् कथं व्याप्तिभङ्ग इत्यत्रह ---आत्मनीति । तथा च संख्याव्यतिरिक्तेषु प्रत्यक्षत्वापादने आत्मगतपरिमाणा(दौ)दिषु व्याप्तिभङ्ग इत्यर्थः । मूलोक्तप्रभृतिशब्दार्थ विवृण्वन् संख्यायामपि व्याप्तिभङ्गं दर्शयति ---- तथा बाह्ये (प्वपी)ष्विति । राशिसेनावनस्पतिवन्याद्यवयवगतद्वित्वादावित्यर्थः ॥ ५२ ॥
वायुप्रत्यक्षत्वम्