________________
556
सव्याख्य सर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[जडद्रव्य
तत्वमुक्ताकलापः
वायुतानुज्झनाच्च । तस्माद्वातो विशेषं घनजलकरसर्वार्थसिद्धिः
' पृथिव्या ओषधय' इत्यादिषु तत्प्रसङ्गात् । प्राणे च वायुत्वं न निवृत्तम् । अतश्च न तत्वान्तरमित्याह – वायुतानुज्झनाच्चेति । तथाऽपि देहोपादानत्वावस्थापन्नो वायुः प्राणस्स्यात् ; किमधिककल्पनयेत्यत्राह — तस्मादिति । अयं भावः - ' यावद (द्धय ) - स्मिन् शरीरे प्राणो वसति तावदायुः ' -
अहं वैश्वानरो भूत्वा प्राणिनां देहमास्थितः । प्राणापानसमायुक्तः पचामि इत्यादिषु देहात्पृथक्तेन प्राणवायुः प्रसिद्धः; अतो न देहोपादानवायुरसौ किं तु योगाद्युपयुक्तशास्त्रवेद्यविशेषवान् कश्चिद्वायुरयमिति । वायुत्वानुवृत्तिव्यक्तयै जलमयकरकानिदर्शनम् ।
॥'
आनन्ददायिनी
हेतुमाह--- पृथिव्या ओषधय इति । यावद्विकाराणां परिगणनासम्भवात् परिगणननिमित्तं किञ्चित्प्रयोजकं वाच्यम्; तच्च पूर्वतत्वपरिगणननिमित्तासाधारणधर्मनिवृत्तिपूर्वकरूपान्तरं परिगणननिमित्तमाश्रयणीयमिति प्राणे स्वोपादान (गत ) वायुत्वा परित्यागान्न तत्वान्तरतेत्यर्थः । तथापीति——–तावता प्राणे वायुत्वप्रतीतिसहप्रयोगयोरुपपत्तेरि (त्यर्थः ) ति भावः । तस्मादित्यादिना देहोपादानावस्थाविशिष्टाद्भेदाप्रतिपत्तेराह - अयं भाव इति । किन्त्विति - कुण्डल्यादियोगाद्युपयुक्तशास्त्रवेद्यवायुतिरोधिसाधन ( वेद्यवायुनिरोधस्थान ) विशेषवानित्यर्थः ।