________________
सरः] स्वमतेदोषाभावः, तादात्म्याभावानुभवः, प्रकारान्तरेणाभावत्वशङ्कानिरासः 523
सर्वार्थसिद्धिः
इति चेत्; सत्यम् ; तथाऽपि न तत्राकाशप्रतीतिविषया (प्रतीत्यविषयत्वादा) वरणाभावसिद्धिः । द्वितीये त्वावरणान्यद्रव्यमिदं (मिदङ्कारास्पदं ) सिध्यत्येव । नन्वावरणाभाव एवेदङ्कारगृहीत आवरणतादात्म्याभावाधिकरणतया बुध्यताम् ; न हि तत्तदभावयोस्तादात्म्यमिति ; मैवम् ; न ह्यावरणतादात्म्याभावस्यावरणान्यत्वं बुद्धा कश्चित्तत्र नभः पर्यायान् प्रयुङ्क्ते, निष्क्रमणादौ वा प्रयतत इत्यलमतिविस्तरेण । 'आकाशे चाविशेषात्' इति सूत्रभाष्ये चैतत्सर्वमनुसन्धेयमिति ॥ ४६ ॥
आकाशस्यावरणाभावमात्रत्व भङ्गः.
आनन्ददायिनी
संभवादिति भावः । तथाऽपीति । तथा सति कुड्यादावावरणे सत्यप्यावरणान्तरभेदसत्त्वात्तत्राकाशबुद्धयादि स्यादित्यर्थः । द्वितीय इति । आवरणप्रतियोगिकभेदाश्रयस्य (येषु) द्रव्यस्यावश्यकत्वे अन्तरिक्षे प्रदेशे पृथिव्यादेरयोगादिदङ्काराश्रय आकाशस्सिद्ध इति भावः । ननु इदमावरणं न भवतीत्यत्रेदमर्थोऽप्यावरणाभाव एव न भवतीति तादात्म्याभावो भेदो ननर्थोऽपि स एवेति तादात्म्याभावास्पदत्वेन नाकाशसिद्धिरिति शङ्कते–नन्विति । तादात्म्यप्रतियोगि काभावाश्रयो नावरणाभावे अभावासंभवादित्यत्राह-न हीति । अनन्यगत्या भावेऽप्यभावोऽभ्युपेत्य इत्यर्थः । आवरणतादात्म्याभावस्येति । तथा सति आकाशत्वमावरणान्योन्याभावत्वं पर्यवस्यति । न च तज्ज्ञानादेवाकाशादिव्यवहारः; तथाच तदन्य आकाशादिपदवेदनीयः सिध्यतीत्यर्थः । अत्यन्ताभावनाशावजननिः' इति मूलस्यात्यन्ताभावश्च नाशो ध्वंसश्च अजननिः प्रागभावश्चेत्यर्थः ॥ ४६ ॥
6
आकाशस्यावरणाभावमात्रत्वभङ्गः .