________________
522
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
जडद्रव्य
सर्वार्थसिद्धिः द्धिमनपेक्ष्य कस्यचिदपि कल्पना! माध्यमिकमतोत्थानप्रसङ्गात् । नोत्तरः; संसर्गाभावस्याप्यसिद्धप्रतियोगिकत्वापातात् । न ह्येतत्कालीनैतद्भूतलघटसंसर्गो निषिध्यमान इहान्यत्र च सिद्धः! घटसंसर्गमानं यत्र क्वचित्सिद्धमिति चेत् ; घटतादात्म्यमपि तथैव । अस्तु तद्युभयत्राप्यसिद्धप्रतियोगिकत्वम् ; किं नश्छिनमिति चेन्न; अतिप्रसङ्गस्योक्तत्वात् । अत्यन्ताभावोऽप्यसिद्धप्रतियोगिक इति पक्षश्च निरस्तः।
तत्र तत्र स्वतादात्म्यं सिद्धमन्यत्र कल्प्यते ।
बाधकैः क्षिप्यते चेति नास्माकमिह विप्लवः ।। सर्वत्र(च)तादात्म्याभावस्तत्तद्वस्तुनिष्ठतयैव सिध्येत् ; न तु तन्मध्यादिदेशतया; यथा मिथस्संयुक्ते वियुक्ते वा सिंहे गजान्यत्वं गजे च सिंहान्यत्वमिति । इदमावरणं न भवतीति तादात्म्यनिषेधश्च कस्यचिदावरणस्य वाना(स्याना)वरणस्य वा ? आये विरोधः। आवरणान्तरं न भवतीति विवक्षायामविरोध
आनन्ददायिनी मेवोपपादयति---न ह्येतत्कालीनेति । एतत्कालिकेति क्वचित्पाठः । प्रचुरप्रयोगसत्त्वाद्वद्ध्यभावः ; (ठन्वा।)एतत्कालीनति पाठान्तरम् । स च तदा पूर्वकालीनवत्साध्यः । अतिप्रसङ्गस्येति । तादृशतादात्म्यस्य तुच्छ त्वेन तदभावस्यावरणादेरपि सत्त्वेनाकाशधियोऽतिप्रसङ्गस्योक्तप्रायत्वादित्यर्थः । यद्वा प्रसङ्गमुक्तमतिक्रान्तमतिप्रसङ्गं तुच्छे प्रतियोगिनि प्रतियोगित्वस्य दुर्वचत्वमिति यावत् ; तस्योक्तत्वादित्यर्थः । स्वपक्षं कारिकयोपपादयति-तत्रेति अन्यत्र कल्प्यत इति-आरोप्यत इत्यर्थः । सर्वत्रेति । तथाचान्तराले द्वयोरावरणयोस्तादात्म्याभावादाकाशबुद्धि रधिकमाकाशं साधयतीति भावः। आद्य इति-स्वस्य स्वापेक्षया भेदा.