SearchBrowseAboutContactDonate
Page Preview
Page 590
Loading...
Download File
Download File
Page Text
________________ सरः] आवरणतादात्म्याभावत्वनिरासः, असिद्धप्रतियोगिकत्व विकल्पदूषणादि 521 तत्वमुक्ताकलापः तादात्म्याभावसिद्धिः कथमपि न भवेत्तंतमर्थ X विहाय ॥ ४६ ॥ सर्वार्थसिद्धिः तत्रापि निष्क्रमणादिप्रसङ्गः । ननु संसर्गे तु विधिरेकेनापि ; तन्निषेधस्तु सर्वप्रतियोगिकः ; तद्वदत्रापि सर्वावरणाभावे व्योमधीः स्यात्; न; असंभवस्योक्तत्वात् । एवं सति च संसर्गाभाव एव नामान्तरेणोच्यते । तत्र च दत्तमेवोत्तरम् । अस्तु तर्ह्यावरणतादात्म्याभावोऽसौ स्यात् । स सिद्धप्रतियोगिकतया स्वयमप्यसिद्धः । तदात्मनश्चाकाशस्य तुच्छत्वं युक्तमिति; तत्राह – तादात्म्येति । चो दूष्यसमुच्चये । श्रुत्यादिविरोधरूपदूषणसमुच्चये वा । असिद्धप्रतियोगिकत्वमस्य क्वचिदपि तादात्म्य - पदार्थाभावाद्वा, आवरणद्वयस्य तदभावाद्वा ! नाद्यः ; अभावप्रतियोगिकत्वेन तत्कल्पनस्यासिद्धिप्रसङ्गात् । न हि क्वचित्सिआनन्ददायिनी T आशयमविदित्वा शङ्कते —— नन्विति । असंभवस्योक्तत्वादिति । सर्वेषां ध्वंसप्रागभावानामेकदैकत्र सत्त्वे सत्येकप्रतियोगिसंसर्गबोधादपि धीः स्यात् तदेव न संभवतीत्युक्तामित्यर्थः । एवं तर्ह्यत्यन्ताभाव एवास्वित्राह एवं सति चेति । असिद्धप्रतियोगिकतयेति । प्रतियोग्यधिकरणयोस्तादात्म्यस्य तुच्छत्वात् तुच्छप्रतियोगि काभावस्य तुच्छत्वादित्यर्थः ः । तदात्मनः -- तादृशाभावात्मनः । दूष्यं— संसर्गाभावादि । श्रुत्यादीति । आकाशाद्वायुरित्यादिभिर्भावरूपत्वमित्यर्थः । अभावेति । प्रतियोगित्वधर्मस्य तद्वत्तित्वायोगादिति भावः । अन्यथा गगनसूने सौरभादिप्रसङ्गात् । तदेवोपपादयति- - न हीति । असिद्धप्रतियोगिकत्व *
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy