________________
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ता कलापे
सर्वार्थसिद्धिः
भाव (साधिकरणभृत) धीरनिवा (रपरिहा) र्या । खपुष्पवदावरणानामत्यन्तासत्त्वे तु शून्यवादश्शरणम् । वर्तमानेषु चावरणेषु तत्प्रध्वंसप्रागभावौ दुर्बचौ । तौ हि किमन्यत्र विद्यमानानां उताविद्यमानानाम् ? नाद्यः ; तेषां तदुभयायोगात् । न द्वितीयः ; तत एव ; न हि शशे शृङ्गस्य नाशप्रागभावौ ! तदिह सर्वावरणनाशादिकं दुर्वचम् ; असंभवात् । कतिपयावरणनाशादिकं चावरणदेशेऽप्यस्तीति
[जद्रव्य
520
आनन्ददायिनी
त्यपेक्षा नास्त्येव ; तद्वदत्रापि स्यादित्यत्राह - खपुष्पवदिति । तथाच प्रतीयमानानामावरणानामत्यन्तासत्त्वे पदार्थमात्रस्यात्यन्तासत्ता स्यादिति आवरणानां सत्त्वं वाच्यमेव ; तथा च सत्प्रतियोगिकाभावप्रतीतौ अधिकरणनियम इति भावः । यद्यपि ख ( खे) पुष्पं नास्ति श(शे) शशृङ्गं नास्तीति तत्रापि सत्प्रतियोगिकत्वमेव ; तथा अत्यन्तासत्त्वेऽपि तदभावप्रतीत्यभ्युपगमे अधिकरणधीनैयत्यमस्त्येव ; तथाप्यभ्युपगम्योक्तमिति ध्येयम् । दुर्वचत्वमेवोपपादयति - तौ हति । अविद्यमानानां तुच्छानामित्यर्थः । तेषामिति — प्रतियोगिकाले ध्वंसप्रागभावयोर्विरोधादित्यर्थः । तत एवेति । अविद्यमानत्वादेवेत्यर्थः । अविद्यमानत्वं तुच्छत्वम् । प्रतियोगिनोऽसत्त्वेऽपि तौ भवेतामित्यत्राह - न हीति । शृङ्गस्यशशशृङ्गस्य । नन्वावरणन्यायेन तावभावौ ( भावाभावौ भवेतां विरोधाभावादित्याशङ्कय यत्किंचिदावरणाभावो नाकाशं, अपि तु यावदावरणाभावसमूहः ; अन्यथा कुड्यादावपि यत्किंचिदावरणाभावसत्त्वात्तद्धीप्रसङ्गात् । तथा च यत्किंचिदावरणस्य सर्वकालेऽपि सत्त्वेन (विद्यमानतया) तद्धंसप्रागभावासम्भवात्तद्घटितयावदभावासंभव इत्याह – तदिति ।
1
--