________________
सरः] उपपत्त्यन्तरं, अध्यासान्तरदृष्टान्तनिरासः अभावान्तरत्वनिरासः 519
तत्वमुक्ताकलापः अत्यन्ताभावनाशावजननिरपि वा सत्सु तेष्वेव न स्युः
सर्वार्थसिद्धिः शेषेण ; संसर्गाभावस्तावनिरूप्यमाणः (संसर्गिनिरूप्य)संसर्गप्रतियोगितया अधिकरणप्रतियोगिभूतसंसर्गिबोधाभावे कथं बुध्येत ? अत्यन्ताभावोऽपि संसर्गाभावभेद एव । यथा(च)अश्वे गोत्वस्य शशे वा शृङ्गस्य। तथाच अनावरणं नास्तीति साधिकरणा(णभूता)
आनन्ददायिनी जकम् ; अपि तु सत्त्वमात्रम् ; तच्च भूतभाविनोरस्त्येव प्रामाणिकत्वात् । तथा च न त्वदभिमतासत्त्वारोपः कुत्रापि ; इयांस्तु विशेषः----भूतभाव्यधिकरणकभ्रमो न प्रत्यक्षः ; किं तु व्याप्तयादिज्ञानमूल इति । निरूप्यमाणः-ज्ञायमानः । संसर्गिनिरूप्यः-----सबन्धिनिरूप्यः । अधिकरणप्रतियोगीति -- तत्प्रतीतिनियतप्रतीतिक इत्यर्थः । तथाच अधिकरणप्रतियोगिभिन्नो(प्रतियोगिनोः यस्संसर्गः तत्प्रतियोगिकतया (तत्प्रतीतिपूर्वकतया) अभावप्रतीतेस्तहृद्धयभावेऽभावबुद्धिर्न स्यादित्यर्थः । केचित्तु-प्रतियोग्यधिकरणसंसर्गप्रतियोगिकत्वमेव संसर्गभावस्य ; तेनैव विरोधात् । तत्प्रतियोगिकत्वमेव (तबलादेव) घटादिप्रतियोगिकत्वमि (त्वव्यवहारइ)त्याहुः । सामान्यतो दूषणमुक्त्वा अत्यन्ताभावादिविकल्पमुखेन विशिष्य दूषणमाह-अत्यन्ताभावोऽपीति । तथाच आकाशस्यात्यन्ताभावत्वे इहाकाशे तारकेति निरधिकरणाकाशधीन म्यादित्यर्थः । ननु खपुष्पं नास्तीति खपुष्पाभावप्रतीतौ प्रतियोग्यधिकरणसंसर्गप्रती