SearchBrowseAboutContactDonate
Page Preview
Page 583
Loading...
Download File
Download File
Page Text
________________ 514 सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे जडद्रव्य सर्वार्थसिद्धिः आकाशादेस्सा(देस्तद)धिकरणतयैवोपलम्भ इत्यनभ्युपगमात् । इहाकाश इतिवदित्यत्र चाकाशशब्देन आवरणाभावविवक्षायां पक्षदृष्टान्तभेदाभावः; त्वदनभ्युपगतस्य परमतसिद्धस्य त्वया दृष्टान्तीकर्तुमयुक्तत्वात् । प्रतिबन्दिग्रहणमात्रमिदमिति चेन्न ; इह __ आनन्ददायिनी प्रतीतिरङ्गम् ; तथाच अभावात्पूर्वमेव प्रतीयमानस्याधिकरणस्य नाभावतादात्म्यमिति तत्र प्रतीतिर्भेदसाधिकैवेति नोपचार इति । अन्ये तुइहाकाश इति बुद्धिराकाशैकदेशाधिकरणिका सामान्यविशेषाकारेण तत्तदधिकरणिका वा (न) निर्वोढुं (ढुम) शक्येति सम्भावितान्यथासिद्धिकतया नाधिकरणान्तरसाधिका । इहावरणाभाव इति बुद्धिस्तु स्वाधिकरणसाधिका । तत्र चाधिकरणमभावैकदेशः ? उतावरणैकदेशस्याभावः? यद्वा आवरणाभाव एव ? पक्षत्रयेऽपि सर्वस्याधिकरणत्वेन वर्णितस्याभावतया तस्याधिकरणसापेक्षतया तबुद्धावनवस्थापातात् अभावबुद्धिरेव न स्यात् । अभावेऽप्येकदेशादिकमनुपपन्नमित्याहुः । एके तु 'आकाशबुद्धिस्सर्वदा साधिकरणिकेति नियमो नास्ति ; अभावबुद्धिस्तु साधिकरणिकेति नान(नतावदन)वस्थेत्याहुः । एतदस्वरसादेव युक्तयन्तरमाह-इहाकाश इतिवदिति' इत्यप्याहुः । इहाकाश इति प्रतीतेरन्यथासिद्धयुपवर्णनायोक्ते ‘इहाकाश इतिवत् इति वाक्ये इत्यर्थः । अत्र किमाकाशशब्देन आवरणाभावो विवक्षितः उत तदन्य इति विकल्प्य आधे दूषयति-आवरणाभाव इति । द्वितीयं दूषयति-त्वदनभ्युपगतस्येति । उभयसंमतस्य पक्षत्वं वाच्यमिति भावः । प्रतिबन्दीति–तथाच न दृष्टान्तासिद्धिर्दूषणमिति भावः ।
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy