________________
सरः] तुच्छत्वस्वरूपर्निरासः आवरणेष्वाकाशास्तित्वं तद्धियोनन्यथासिद्धता च 513
सर्वार्थसिद्धिः
हितत्वात् । अत एव तत्र नास्तीति न नि( श्राय्यम्) धयम् । भित्वा तु प्रेक्ष (क्ष्यमाणे नभस्तत्र दृश्यत एव । नचात्रावरणाभावमात्रोपलम्भः! इहावरणं नास्तीति साधिकरणस्य तस्योपलम्भात् । इहाकाश इतिवत् स्वात्मन्येव भेदोपचारात्स्यादिति चेन्न ; बाधकाभावात् । अधिकरणानवस्थाप्रसङ्गो बाधक इति चेन्न ; आनन्ददायिनी
दुर्दर्शत्वमुपपद्यत इति कथं तस्य साधन (क) त्वम् ? इत्यत्राह - अत एवेति । कुड्यादौ दुर्दर्शदशायामाकाशमत्रास्ति न वेति सन्देहस्य दर्शनादभावत्वे प्रतियोगिनिश्चयेन सन्देहो न स्यादिति भावः । तथा च आकाशो नावरणाभावः आवरणवत्तया निश्चयसमानकालीनतदधिकरणधर्मिकसंशयविषयत्वात् ; यत् यद्वत्तया निर्णयसमकालीनतदधिकरणसंशयविषयः स न तदभावः यथा रूपस्य रस इत्यनुमानमावरणाभावस्य आकाशाभावाद्भेदे प्रमाणमिति ध्येयम् । प्रत्यक्षमपि प्रमाणयतिनभस्तत्रेत्यादिना । अन्यथासिद्धिमाशङ्कते — इहाकाश इति । बाधकाभावादिति — अन्यथा भूतले घट इत्यादावुप ( वप्युप) चारप्रसङ्ग इति भावः । अधिकरणानवस्थेति तथा सति आकाशस्याप्यधिकरणं तस्याप्यधिकरणान्तरं तस्यापीत्यनवस्थेत्यर्थः । ननु मास्तु साधिकरणतयोपलम्भनियमः; साधिकरणतयोपलम्भमात्रमधिकरणसाधकं स्यात् ; नच नियमो ऽपि साधककोटौ प्रविष्टोऽप्रयोजकत्वात्; अन्यथा घटादी - नामप्यधिकरणासिद्धिप्रसङ्गात् इति चेत्; अत्राहुः -- इहाकाश इति व्यपदेशमात्रमुपदेशमात्रादपि भवति ; नचावरणाभावादपि तथा; अभावस्याधिकरणसापेक्षत्वात् तत्र नोपचारः । किञ्चाभावप्रतीतावधिकरण
SARVARTHA.
33
-