________________
सरः] इहाकाशइतिप्रतीतेरबाधः परस्यानिष्टं व्योमादिशब्दानां प्रमानिबन्धनत्वम् 515
सर्वार्थसिद्धि मूर्ते वस्तुनि आकाशसंबन्ध इति प्रतीतौ विरोधाभावात् । आवरणाभावधीरपि तथैव स्यादिति चेत् ; अस्त्वेवम् ; तथाऽपि कदाचिदिह तारकेतिवत् निरधिकरणग(णतयाग)(गणत्ववद्ग)गनोपलम्भे तदतिरिक्तनभस्सिद्धिनिषेधः । आवरणेषु निरवकाशत्वं च विशेषणराहित्यात् । आवरणरहितमेव ह्याकाशमन्यद्वा किञ्चिदवकाशः! न त्वाकाशमात्रम् । आवरणेष्वविद्यमानतया तदभाव आकाश इतिचायुक्तम् ; सर्वेषां स्वस्मिन्नविद्यमानतया स्वाभावत्वप्रसङ्गात् । यत्तु व्योमादिशब्दा व्यामोहैकनिबन्धना इति; तदसत् ; प्रमाणसिद्धे क्वचिद्वस्तुन्येव सर्वशब्दानां व्युत्पत्तेः । तद्विषयत
आनन्ददायिनी आवरणाभावेति-तत्रापि मूर्तवस्तुनि सम्बन्धधीस्स्यादित्यर्थः । तथापीति—यथेह तारकेति धीस्तथा कदाचिदाकाशे तारकेति धीः । तथा च आकाशस्याधिकरणप्रतीतिनियमाभावादभावात्मकत्वे तदयोगान्निरधिकरणतया प्रतीयमानस्यावरणा(मानस्याकाशा)भावातिरिक्तत्वेन सिद्धौ तदतिरिक्तनभोनिषेधस्सम्भवति त्वत्पक्षे तु न संभवतीत्यर्थः । नन्वावरणाभावातिरिक्तत्वे आकाशस्य आवरणे सत्यपि सत्त्वात् तत्र तदभा(तदाकाशाभा)वो न स्यात् तस्यैवाकाशत्वादित्युक्तत्वादित्यत्राहअवरणेष्विति । आकाश सत्त्वेऽपि नाकाशमात्रमवकाशः ; अपि तु आवरणाभावविशिष्टमि(ष्टम् ; तत्र विशिष्टं नास्ती)त्यर्थः । सर्वेषामिति--ननु आवरणेष्वविद्यमानतयेत्यत्र आवरणेषु सत्सु अविद्यमानतयेत्यर्थः । तथाच न सर्वेषां स्वाभावत्वप्रसङ्गः; स्वस्मिन्नसत्त्वेऽपि स्वाधिकरणे सत्त्वादिति चेत् ; न ; गोत्वाश्वत्वयोः परस्पराभावत्वप्रसङ्गात् । नच भावान्तराभाववादे इष्टप्रसङ्गः इति चेन्न ; पीतत्वशङ्खत्वयोर्व्यभिचारात् ।
33*