________________
सरः] द्वितीयपक्षेदिगादिग्रहणोपपत्तिः पक्षद्वयाक्षेपपरिहारौ मीमांसकनिरासश्च 493
सर्वार्थसिद्धिः सदपि वा निष्कारणकम् ? सकारणमपि वा कारणान्तरसिद्धमिति ? नाद्यः; सर्वलोकाविरोधात् । सामग्रीवैकल्यात्तु कदाचिद्दिगादिरहितधीः। न द्वितीयः; आगन्तोरहेतुकत्वविरोधात् । न तृतीयः; आगमादेरत्रासंभवात् । भ्रान्त्या दिगादिधीरिति चेन्न, प्रतिपुरुषनियतदिगध्यासहेतुभूतधर्मविशेषग्रहाभावात् ; भावे वा तत एव तत्तदनुमानोपपत्तेः । तद्वदेव च दिगादेरप्युपलम्भोपपत्तेः । न चाबाधितांशे भ्रान्तिक्लप्तिर्युक्ता! अतः प्रत्यक्षतोऽनुमानतो वाऽत्र दिगादिग्रह इत्यन्यतरपक्षोऽनतिक्रमणीयः । शब्दस्य
आनन्ददायिनी कस्य दिगादिग्राहकत्वे कदाचिदयं (ग्राहकेष्वयं) शब्दः कुत्रत्य इति सन्देहो न स्यात् इत्यत्राह—सामग्रीति । दोषादिना लिङ्गादिप्रतिसन्धानादि सहकारिवैकल्यादिति भावः । आगन्तोः—कार्यस्येत्यर्थः । आगमादिः-तद्बोधकश्रुत्यादिः । भ्रान्त्येति-श्रान्तिः-दोषः तेनेत्यर्थः। यद्वा (केचित्तु) द्विद्रोणेन धान्यं क्रीणाति पञ्चकेन पशून् इत्यादिवत् प्रकृत्यादित्वात्स्वार्थे तृतीया । तथाच दिगादिधीन्तिरित्यर्थः(इत्याहुः)। प्रतिनियतेति—सादृश्यज्ञानस्याध्यासकारणत्वादिति भावः । तद्वदेवेतिप्रतिनियतधर्मवच्छोत्रेणैव शब्दगतप्रतिनियतधर्मवद्दिगादिग्रहणोपपत्तेरित्यर्थः । एतच्च प्रथमपक्षानुसारेण ; किञ्च बाधकामावादपि न भ्रान्तिरित्याह-नचाबाधितेति । ननु शब्दो नित्यो विभुः श्रोत्रेण सर्वदा सम्बद्ध एव । यद्वा विभ्वाश्रितत्वादपि श्रोत्रेण सम्बद्ध एव ; तथाच तद्ग्रहार्थं श्रोत्रवृतिशब्दागमनकल्पनाऽनर्थिकेत्यत्राह-शब्दस्येति ॥ ४१ ॥
श्रोत्रवृत्तिशब्दाश्रयागमनपक्षौ.