SearchBrowseAboutContactDonate
Page Preview
Page 563
Loading...
Download File
Download File
Page Text
________________ 494 सव्याख्यसर्वार्थासद्धिसहिततत्वमुक्ताकलापे [जडद्रव्य तत्वमुक्ताकलापः प्रत्यक्षं व्योम नीलं नभ इति हि मतिश्चक्षुषैवा सर्वार्थसिद्धिः नित्यविभुत्वात्तदाश्रितत्वाद्वा श्रोत्रेण नित्यसंबन्ध इति वादस्तु अद्रव्यसरे निरसिष्यते ॥ ४१ ॥ श्रोत्रवृत्ति शब्दाश्रयागमनपक्षी इन्द्रियचिन्तानन्तरं भूतचिन्ताप्राप्तौ प्रथममाकाशे चार्वाकैरपि संमन्तव्यं प्रमाणविशेष पुरस्करोति-प्रत्यक्षामिति । कथमित्यत्राह-नीलमिति । धूम्रादेरुपलक्षणमेतत् । आरोपितं नभसि तलत्वादिवन्मलिनत्वादिकमिति चेत् ; असावारोपश्चाक्षुषोऽन्यो वा? आये अधिष्ठानमपि चाक्षुषमेष्टव्यम् । अन्यथातिप्रसङ्गात् । द्वितीयस्त्वसंभवी निमीलिताक्षस्य तादृशारोपादृष्टेः । अत एव आनन्ददायिनी अवसरसंगतिं दर्शयति-इन्द्रियेति । भूतोत्पत्तिक्रमे आकाशस्य प्राथम्यात् (प्राधान्यादाकाशस्य) तन्निरूपणे कर्तव्ये तत्र निरूपणस्य लक्षणप्रमाणाधीनत्वात् धर्मिसाधकं प्रमाणमाहेत्यर्थः । चार्वाकैरपीतितस्य प्रत्यक्षमात्र(क्षेत्र) प्रमाणवादित्वादिति भावः । तलत्वं(कठिन)कार्यदेशत्वम् । अन्यथेति--अधिष्ठानस्य चाक्षुषत्वाभावेऽपि चाक्षुषरूपाद्यारोपे ह्या(रोपआ)त्मादावपि तथाऽऽरोपप्रसङ्गादिति भावः । असंभवीति--- चक्षुर्व्यापारनिरपेक्षो न सम्भवतीत्यर्थः । तदवोपपादयति-निमीलितेति । अत एवेति-अचाक्षुषे चाक्षुषारोपासम्भवादित्यर्थः । किञ्च नीलधियो
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy