SearchBrowseAboutContactDonate
Page Preview
Page 561
Loading...
Download File
Download File
Page Text
________________ 492 सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे तत्वमुक्ताकलापः अनुमितिमप्याहुरस्मिन् दिगादेः ॥ ४१ ॥ सर्वार्थसिद्धिः [जडद्रव्य नन्वेवं दिगादिविशिष्टोपलम्भः कथमित्यत्राह - अनुमितिमिति । आदिशब्देन दृरासन्नत्वग्रहः दृष्टान्तप्रदर्शनं च ।। यथा मयूरवीणादेश्शब्दोऽयमिति गृह्यते । तथा प्राच्यादिजातोऽयमिति लिङ्गात्तथाविधात् ।। तत्र यद्यपि शब्दस्य विशेषः कोऽपि दुर्वचः । तथाऽपि विदितस्तैस्तैः लिङ्गं स्यात्संमतेष्विव ॥ नन्विमौ द्वावपि पक्षौ हाठिकौ पूर्वत्र दिगादिषु श्रोत्रस्य शक्तिकल्पनागौरवात् उत्तरत्र दुर्वचलिङ्गदर्शन क्लृप्तेरिति ; हन्त ! एवं वदन् किं शब्दग्रहे दिगादिग्रहणमेव नास्तीति मन्यते ? आनन्ददायिनी ( उत्पद्यत इत्यर्थः) स्सम्भवतीति भावः । नन्वस्मिन् पक्षेऽपि तत्तद्देशविशिष्टशब्दग्रहो न स्यादित्याशङ्कते - नन्विति । ननु अस्मिन्पक्षे मयूरवीणादिशब्दविशेषग्रहेऽपि सामर्थ्यं श्रोत्रस्य कल्प्यताम् तथाच नायं दृष्टान्तः ; अन्यथा तत्र तत्तत्प्रतिनियतविशेषस्याभावादानुमानिकत्वानुपपत्तेरित्यत्राह—यद्यपीति । विशेषस्य शब्दे (दुर्वचत्वेऽपि ) दुरभिलपत्वेऽपि तैस्तैः पुरुषैर्विदितोनुभवसिद्धस्संमतेष्विव -- इक्षुक्षीरादिमाधुर्येष्विव विशेषो लिङ्गं भवत्वित्यर्थः; अन्यथा इक्षुक्षीरादिमाधुर्येष्वपि विशेषो न स्यादिति भावः । हाठिकौ - हठात्सिद्धौ -- आपातसिद्धाविति यावत् । अध्यात्मादित्वाट्ठञ् । ननु शब्दग्राह
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy