________________
सरः]
वृत्तिद्वारा श्रोत्रव्याप्तिपक्षः स्वारसिकं पक्षान्तरं च
491
तत्वमुक्ताकलापः भेदात् श्रोत्रायातस्य तस्य ग्रहं
सर्वार्थसिद्धिः प्रतिवातयोरतिदूरानतिदूरं च शब्दो गृह्यते । बहिरन्तर्गृहगतानां च दूरस्थशब्दग्रहणे स्फुटास्फुटधीश्च । अतः श्रोत्रप्रदेशायातभूतधर्मस्य शब्दस्य ग्रहणम् । तस्यचायातत्वमाश्रयद्वारकम् । 'शब्दगन्धसूर्यालोकरत्नप्रभादयो धर्म्यतिवर्तिनो गतिमन्तश्च' इति आत्मासद्धिवाक्ये शब्दशब्दो गन्धशब्दवदाश्रयलक्षकः ॥
गुहासौधादिसंक्षोभः प्रतिशब्दश्च जृम्भते । निस्साणादिप्रणादेन तदेतत्पक्षसंगतम् ॥
आनन्ददायिनी शब्दो गृह्यते प्रतिवाते अनतिदूर एव गृह्यत इत्यर्थः । भूतधर्मस्येतिशब्दस्य द्रव्यत्वं येऽभ्युपगच्छन्ति तन्मतमसंगतामिति भावः । ननु तस्याद्रव्यत्वे कथमागमनमित्यत्राह -- तस्यचेति । सिद्धान्तविरोधं परिहरति- शब्दगन्धेति । गन्धस्य गुणत्वं सर्वसिद्धमिति भावः । शब्दशब्द इति—ननु गुणत्वे धर्म्यतिवर्तिन इति विरोध इति चेन्न; धर्मिशब्देन समुदायस्याभिधानात् तदेकदेशरूपाश्रयद्वारा तदतिवर्तित्वं सम्भवतीति (समुदायरूपधर्म्यतिवर्तित्वस्य विवक्षितत्वादिति) भावः । ननु आश्रयद्वारा शब्दस्य कर्ण (अन्य) देशागमनं किमर्थं कल्प्यते ? तावद्व्यापी शब्द एव प्रथममुत्पद्यतामित्यत्राह -गुहासौधादीति । शब्दस्य तावद्देशव्यापिन उत्पत्तौ गुहासौधप्राकारादीनाम (रादिष्व) भिघातरूपसंक्षोभा(भाभावात् )त् प्रतिशब्दोनोपपद्यते शब्दाश्रयद्रव्यस्यागमनपक्षे तु तीव्रतरशब्दाश्रयद्रव्याभिघातेन गुहादौ प्रतिशब्द