________________
480
सव्याख्यसार्थसिद्धिसहिततत्वमुक्ताकलापे
[जडद्रव्य
सर्वार्थसिद्धिः नदीप्तं शिलाविशेषादि । यथावत्प्रसरमत्यन्तनिरोधं च परिहतुं विरलपटनिदर्शनम् । अत एव हि तत्राविशदप्रतिभासः । सरन्ध्रत्वे स्फटिकादिषु सलिलगलनादिप्रसक्तिस्स्यादिति चेन आलोकप्रवेशवत्सु सर्वेषु सलिलप्रवेशस्य त्वया दुर्वचत्वात् । अच्छिद्रपरुवकसम्पुटस्थगितकर्पूरकस्तूरिकादिगन्धानिस्सरणन्या - याच्च । द्रव्याविशेषप्रवेशानुगुणसन्निवेशवत्त्वं काचादेरङ्गीकार्यम् । अप्राप्यग्रहणेऽपि हि कुड्यादिव्यवहितं न ग्राह्यम् , काचादिव्यवहितं तु ग्राह्यामिति वस्तुस्वभाववैचित्रयं त्वयाऽपि स्वीकृतम् ।
नीरन्धेऽप्यम्बुकाचादौ दृक्प्रभादेः प्रवेशनम् । वस्तुस्वभाववैचित्रयादिति केचित्प्रचक्षते ॥
आनन्ददायिनी
यथावदिति । परु(पुरु)वक-अत्यन्तस्वच्छद्रव्यविशेषः । (करण्ड इति केचित् । ) निर्मितकरण्डः । नन्वंवे स्वभावविशेषकल्पनं गौरवान्निरस्तमित्यत्राह-अप्राप्यग्रहणेऽपीति । केचित्तु दृक्प्रभादेरेवाम्बुकाचादिप्रवे(प्रका)शनसामर्थ्य कल्प्यत इत्याहुरित्याह-नीरन्धेऽपीति । ननु व्यवधानतदभावाभ्यां ग्रहणाग्रहणदर्शनात् प्रा(तत्प्रा)प्तत्यप्राप्तयोस्तत्प्रयोज्य(जक)त्वादिन्द्रियाणां प्राप्त(प्राप्य)ग्राहकत्वं सिध्यतीत्यनुकूलतर्कोऽनुपपन्नः ग्रहणाग्रहणयोः ग्राह्ययोग्यत्वायोग्यत्वप्रयुक्तत्वात् व्यवधानाव्यवधानयोरप्रयोजकत्वम् ; छा(तच्छा)दकं च न प्राप्तिविघटकं ; तदभावश्च न तत्प्र