SearchBrowseAboutContactDonate
Page Preview
Page 548
Loading...
Download File
Download File
Page Text
________________ सरः] इन्द्रियगमनस्यप्रतिबन्द्या साधनं बाधशङ्कानिरासश्चं 479 तत्वमुक्ताकलापः प्राप्तिरुक्तप्राकारा; वृत्तिं दृष्टेर्निरुन्धे विरलपटनया दम्बुकाचादिरच्छः । सर्वार्थसिद्धिः भावस्त्वनुपलम्भमात्रेण सिध्यतीति चेन्न ; योग्यानुपलब्धरभावात् । अतीन्द्रियस्य हि प्राप्तिरपि तथैव । अतो नात्र बाधशङ्का । ननु दूरस्थत्वाद्विषयेन्द्रिययोः प्राप्तिर्बाधितेत्यत्राह - प्राप्तिरिति । वृत्तिद्वारेति शेषः । उक्तप्रकारेति – पुनरनुवचनं वाद्यन्तरोक्तप्राप्तिप्रकारनिरासार्थम् । अथापि क्वचिद्यवहितग्र हणदर्शनात् प्रमाणतस्तर्कतश्च बाधस्स्यादित्यत्राह — वृत्तिमिति । अच्छः– आलोकाद्यनुप्रवेशानुगुणसन्निवेशवानित्यर्थः । दृश्यते ह्यनाविलसलिलमूलप्रविष्टस्सूर्यालोकः तत्रत्यं च तत्प्रतिफल आनन्ददायिनी भावः । योग्येति - नानुपलम्भमात्रं बाधकमिति भावः । योग्यानुपलब्धिमेवाह—अतीन्द्रियस्येति । अतीन्द्रियेन्द्रियप्राप्तेरतीन्द्रियत्वान्न योग्यानुपलब्धिरित्यर्थः । नन्विति — विप्रकृष्टयोः प्राप्तय संभवादिति भावः । वाद्यन्तरेति – सांख्याद्युक्तमित्यर्थः । तन्निरसनमनन्तरमेव दर्शयिष्यते । ननु प्राप्तयभावेऽपि काचादिव्यवहितस्थले प्रकाशदर्शनात् प्राप्यप्रकाशतानुमानस्य व्यभिचारः प्राप्यप्रकाशत्वे काचादिव्यवहितस्य प्रकाशो न स्यादिति तर्कबाधश्चेति शङ्कामनूद्य परिहरति-- अथापीति । संनिवेशः स्थानम् । ननु पटदृष्टान्तत्वे तद्वदृश्यमानरन्धता स्यादित्यत्राह - ; --
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy