SearchBrowseAboutContactDonate
Page Preview
Page 550
Loading...
Download File
Download File
Page Text
________________ सरः] छादकाभावस्य स्वतः कारणत्वनिरासः 481 तत्वमुक्ताकलापः नो चेत् गृह्येत योग्यं सममिह निखिलं निष्फले छादकादौ सर्वार्थसिद्धिः 'सर्वत्र स्वरूपयोग्यत्वायोग्यत्वाभ्यामेव ग्रहणाग्रहणे । तत्र छादकतदभावौ निरर्थको' इति वदतां बाधकं स्वोक्तानुमानस्य विपक्ष बाधकं अयस्कान्तनिदर्शनेऽपि छादकनैष्फल्येऽतिप्रसङ्गमाभिप्रेत्याह-नो चेदिति । इह योग्यं निखिलं सर्वस्मिन् जगति स्वरूपयोग्यं सर्वं समं गृह्येत, अविशेषायुगपदेवेत्यर्थः । आदिशब्देन अतिदूरत्वकालविप्रकर्षादिकं दृष्टान्तय (ततया गृह्णा) ति । छादकाभावः स्वरूपतस्सहकारी न तु प्राप्तिविरोधिप्रत्यनीकतयेति चेन्न; आलोकादिप्राप्तिविरोधिच्छत्रादिन्यायस्यात्रानपायात् । न च यत्रक्वचिच्छादकाभावस्सहकुर्यात् अतिप्रसङ्गात् ; किं तु नयनार्जवदेशे । अयं च (अयं नियमः) प्राप्तिविरोधिनिवृत्तिरूपतयेति युक्तमुत्पश्य ! रूपग्रहणसामग्रयामेव प्रदीपादि आनन्ददायिनी योजक इति शङ्कते-- सर्वत्रेति । दृष्टान्ततयेति—यथा (दूरत्व)कालविप्रकर्षादेस्सन्निकर्षप्रतिबन्धकत्वं तद्विरहस्य तदापादकत्वं च नास्ति(किन्तु) अयोग्यत्वमात्रेण ग्रहणाग्रहणे इ(ग्रहणमिति तयोर्निष्फलत्वं तथेत्यर्थः । छादकाभाव इति-- व्यवधायकाभाव (इत्यर्थः) । प्राप्तिविरोधिरूपप्राप्तयभावप्रत्यनीकतया प्राप्तिसंपादकतया न प्रयोजकं किं तु स्वयं कारणमित्यर्थः । आलोकादीति-अन्यत्र क्लप्ता(दृष्टा)कारकल्पनस्योचितत्वादिति भावः । तन्नयायमेवोपपादयति-नच यत्र क्वचिदिति । ननु SARVARTHA. 31
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy