________________
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[जडद्रव्य
तत्वमक्ताकलापः मन्वते न्यायपूर्वम् ॥३६॥
सर्वार्थसिद्धिः तादृशमिन्द्रियत्वम् । न्यायपूर्व–क्रिया करणपूर्विकेति व्याप्तयनुसारेण तत्तत्करणमात्रानुमानेऽपि अलौकिकविशेषप्रतिपत्तिश्शास्त्रत एवेति भावः । एवं च शास्त्रयोन्यधिकरणे भाष्यम्-'अतीन्द्रियेऽर्थे शास्त्रमेव प्रमाणम्' इति । चन्द्रबिम्बपरभागादिषु व्यवधानविप्रकर्षादिभिरस्मदादीन्द्रियग्रहणानर्तेषु नानुमानम् ; तस्य पक्षाश्रयहेतुधर्मव्यापकान्वयमात्रातिरिक्तेषु प्रवृत्त्ययोगात्। साध्यसामान्यस्य तु विवक्षितविशेषविरुद्धव्याप्तत्वेन तदाकर्षकत्वायोगात् । अतोऽतीन्द्रियधर्मकल्पनाद्वरं दृष्टेषु केषुचित् वैषम्यमात्रस्वी
आनन्ददायिनी अतिशदन्तायाः' इति कन् । 'ननु सप्तगतेर्विशेषितत्वात्' इति सूत्रे सप्तसंख्या प्रतीयत इत्याशङ्कय सिद्धान्तसूत्रे 'हस्तादयः' इत्यनेन सिद्धान्तितत्वान्नात्र विरोध इत्याह–साधितमिति । ननु न्यायपूर्वकत्वे पूर्वोक्तं श्रुतत्वं विरुध्यते प्रमाणान्तराप्राप्ततात्पर्यकत्वाच्छास्त्रस्येत्यत्राह-अलौ. किकेति । सर्वो विशेष आनुमानिक एव ; यथा चन्द्रबिम्बपरभागः ताद्विशेषश्च ; तथेन्द्रिये वा तद्विशेषे वा शास्त्रं प्रमाणमित्याहचन्द्रबिम्बेति । तत्रापि विशेषशास्त्रमेव प्रमाणमित्यर्थः । आदिशब्देन सौरादिपरभागग्रहणम् । द्वितीयेन तेन सौरादिग्रहणम् । तत्र हेतुमाहतस्येति । पक्षश्चासावाश्रयश्च पक्षाश्रयः । हेतुरूपो धर्मः हेतुधर्मः । अन्वयः-तेषां संबन्धः । ननु सामान्यतस्साध्यसिद्धौ तद्विशेषः साध्येनैवानुमीयतामित्यात्राह--साध्यसामान्यस्येति । सामान्यतस्सिद्धस्य