________________
सरः] अलौकिकस्य शास्त्रकगम्यता अनुमानव्यवस्था करणगणने सांख्यमतं च 453
तत्वमुक्ताकलापः सांख्यैस्त्रेधोक्तमन्तःकरणमिह मनोबुद्ध्यह
सर्वार्थसिद्धिः कार इति तात्पर्यम् ॥३६॥
एकादशेन्द्रियासिद्धिः उक्तेष्विन्द्रियेषु एकमेवान्तःकरणमिति तत्वम् । सांख्यास्त्वाहुः
'करणं त्रयोदशविधम्' . . . . . . ।
अन्तःकरणं त्रिविधं दशधा बाह्यं त्रयस्य विषयाख्यम् ॥ इति । अन्ये तु चित्ताख्यमप्यन्तःकरणमन्यदाहुः; तदनुभाषतेसांख्यैरिति । तदिदं मतद्वयं निष्प्रमाणकमित्याह
आनन्ददायिनी साध्यस्य पक्षादन्यत्र सिद्धविशेषापेक्षया विरुद्धधर्मदर्शनात् विशेषविरुद्धत्वमित्यर्थः । तथा च अनुमानमात्रेण न गोळकातिरिक्तेन्द्रियसिद्धिरित्युपसंहरति-अत इति ॥ ३६
एकादशेन्द्रियसिद्धिः प्रासङ्गिकी संगति दर्शयति–उक्तेष्विति। विप्रतिपत्तिं दर्शयतिसांख्यास्त्विति । 'करणं त्रयोदशविधम्' इति सांख्यसप्ततिश्लोके बाह्याभ्यन्तरविभागाभावेऽपि बाह्यानां दशत्वे शेषाणामान्तरत्वं सिध्यतीति भावः । विशेषतोऽपि तत्रैवोक्तमिति दर्शयति-अन्तः करणमिति । वाचास्पतिनेत्थं व्याख्यातं-'अन्तःकरणं महदहङ्कारमनोभेदेन त्रिविधम् । दशविधमपि बाह्यमिन्द्रियं त्रयस्यान्तःकरणस्य विषयाख्यं-बुद्धीन्द्रियं आलोचनेन कर्मेन्द्रियं स्वव्यापारेण संकल्पाभिमानाध्यवसायेषु विषयमाख्याति द्वारीभवतीत्यर्थः। अन्ये विति–मायिमतानुसारिण इत्यर्थः ।