SearchBrowseAboutContactDonate
Page Preview
Page 520
Loading...
Download File
Download File
Page Text
________________ सरः]श्रोतेन्द्रियैकादशत्वाबाधः तल्लक्षणान्तरनिरासः स्वमतलक्षणं सांख्यैककण्ठ्यंच 451 सर्वार्थसिद्धिः णके यथाशब्दं व्यवस्थापनात् । सांख्यैरप्यत्र शास्त्रमेवानुसृतम् सात्विक एकादशकः प्रवर्तते वैकृतादहङ्कारात् । इति । साधितं च सप्तगत्यधिकरणसिद्धान्ते हस्तादीनामपि आनन्ददायिनी तथा भूतानामपि प्रकृतिकोटिप्रवेशे ‘अष्टौ प्रकृतय' इति विरोधात् । तथाच तत्वान्तरप्रकृतित्वं वाच्यमिति राजसाहङ्कारस्य प्रकृतित्वाभावेन विकारकोटिप्रवेशप्रसङ्गः । नचाहङ्कारजातीयस्य प्रकृतित्वात् तस्यापि प्रकृत्यन्तर्भावः ; वैपरीत्यप्रसङ्गात् इति चेत् ; अत्राहुः-सात्विकतामसयोरिन्द्रियभूतारम्भकयो राजसस्य प्रकृतित्वं (नाम) न निमित्त(त्वमात्रं;) तया; किंतु द्विधा विभक्त उभयत्र संबद्धस्सन् उपादानीभू(यैव )ततयैव (सहकारि) यथा शरीरोत्पत्तौ (पञ्चीकृतानां तदंशानां) पृथिव्या इतरभूतानि ; तथा पृथ्व्या अण्डाद्युत्पत्तौ । नच सहकारित्वव्यपदेशो न स्यात् स्याच्चोपादानत्वव्यपदेश इति वाच्यम् ; यथा पञ्चीकरणस्थले इतरभूतानां स्वल्पतया नियतैकभूतत्व(भूतत्वादि)व्यपदेशः तथा सहकारित्वेनैवात्रापि व्यपदेशः ; अन्यथा कार्ये दण्डादेरिवानुवृत्त्ययोगाद्रजोगुणः तत्कार्यचलनादिक्रिया च न स्यादिति । अन्ये तु निमित्तत्वमेव राजसाहकारस्य ; नच विकारकोटिपरिगणनापत्तिः ; तत्वान्तरोपादाननिष्ठतत्वविभाजकधर्मावच्छिन्नत्वमुपादानत्वम् ; तद्भिन्नतत्वविभाजकधर्मावच्छिन्नत्वं विकारत्वमिति विवक्षितत्वात् ! उपष्टम्भकगतेनापि रजसा चलनाद्युपपत्तिः यथा स्वर्णतैजसत्वमते गुरुत्वादीत्याहुः। सात्विकःसत्वगुणेन व्यवहियमाणः-सत्वगुणाश्रय इति यावत् । वैकृताहङ्कारःसात्विकाहङ्कारः । सात्विकान्येकादशेन्द्रियाणि सात्विकाहङ्कारादुत्पद्यन्त इत्यर्थः । एकादशकः-एकादशसंख्यया परिमितः ; 'संख्याया 29*
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy