SearchBrowseAboutContactDonate
Page Preview
Page 516
Loading...
Download File
Download File
Page Text
________________ ज्ञानकर्मेन्द्रिययोः इन्द्रियत्वसाधकबाधकोपपत्तितौल्यं 447 सर्वार्थसिद्धिः सिद्धसाध्यता । गोळकादिसद्भावेऽपि कदाचित् कार्य न जायते इत्यतिरिक्तसिद्धिारति चेत्, समं वागादावपि । सामग्रीवैकल्यात् प्रतिबन्धकाच्च तत्र तथेति चेत्, चक्षुरादावपि तथैव । सत्यप्यालोकादौ दोषादर्शनेऽपि गोळकादितः कदाचित् कार्य न जायत इति चेत् । तदपि समम् । दोषस्सूक्ष्मस्तत्रेति चेत् ; अत्राप्येवमस्तु ; ज्वालाघ्रातबीजन्यायेन विशेषादर्शनेअपि दोषस्य कल्प्यत्वात् । कल्पितेऽपि ह्यतीन्द्रिये तदानीं तद्भशहेतुस्सूक्ष्मो दोषस्त्वयाप्यङ्गीकार्यः; अन्यथा कर्मेन्द्रियक्लप्तेरन्यथासिद्धिः । ननु च यदि चक्षुर्गोळक एवेन्द्रियं आनन्ददायिनी प्रकाशकसौरालोकादिभिः । ज्ञानेन्द्रियादिष्वन्यथासिद्धयभावं शङ्कतेगोळकादीति । सममिति-मूकादीनां वागाद्यवयवसत्त्वेपि वचनादिक्रियाया अदर्शनात् परिहरणं सममित्यर्थः । न समतेति शङ्कतेसामग्रीति । पुनर्ज्ञानेन्द्रियेषु वैषम्यमाशङ्कते—सत्यपीति । तदपीतिदोषदर्शनमित्यर्थः । सूक्ष्मेति–वागादौ दोषाभावोऽनुपलम्भमात्रान्न वक्तुं शक्य इत्यर्थः । तदपि सममित्याह-अत्रापीति । ज्वालाघातं---ज्वालास्पृष्टम् । ननु अप्रत्यक्ष (अनुपलब्ध) प्रतिबन्धकल्प(नापक्षे)ने कल्प्यत्वाविशेषात् इन्द्रियक्लाप्तिरेवास्तु इत्यत्राह-कल्पितेपीति । इन्द्रियकल्पना गुर्वीति भावः । अन्यथा-सूक्ष्मदोषस्याकल्पने। ननु ज्ञानेन्द्रियानभ्युपगमे बाधकमस्ति न तु वागादीनामिति वैषम्यं शङ्कतेनन्विति । गोळकमात्रस्य प्रकाशकत्वे तस्य दूरस्थविषयसम्बन्धाभावादप्राप्तप्रकाशकत्वस्य वाच्यत्वेन अविशेषात् सर्वं सर्वदा प्रकाशयेदिति
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy