SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ 446 सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे जडद्रव्य सर्वार्थसिद्धिः विकेति व्याप्तया रूपादेस्सुखादेश्वोपलब्धिः स्मृतिश्च क्रियात्वात् करणपूर्विकेति कल्प्येत तदा वचनादानादिक्रियापि तत्पूर्विका कल्प्या स्यात् । अथ तावता अधिष्ठानातिरिक्तं न सिध्यतीति मन्यसे! ज्ञानेन्द्रियेष्वपि तथैव ; आलोकादिभिरधिष्ठानैश्च आनन्ददायिनी ग्रुपलब्धिः स्मृतिश्च मनोऽनुमाने पक्षः । ननु अधिष्ठानेन वागाद्यवयवेनान्यथासिद्धिरिति शङ्कते--अथ तावतेति । आलोकादिभिः-विषय भावप्रकाशः मनः ; एकादशं संकल्पाद्यात्मकम्' इत्यत्र संकल्पाद्यात्मकमित्यनेन मनसः प्राधान्यं बोधितं एकादशमित्यनेन मनस इन्द्रियत्वं च, अन्यथा तस्य वैयर्थ्यं स्यात् । एकादशमित्यनेन ‘एकादशं मनश्चात्र' (१-२) इति विष्णुपुराणवचनं स्मारितम् । तत्र च संदर्भ ‘श्रोत्रमत्र च पञ्चमम्' 'वाक्च मैत्रेय पञ्चमी, इत्यत्र इन्द्रियेणैव संख्यापूरणस्य विवक्षितत्वेन 'एकादशं मनश्चात्त्यत्रापि मनसा इन्द्रियेणैव सख्यापूरणं विवक्षितमिति प्रतीयते । एवं 'तानि चैतानि सांख्याश्चतुर्विंशतितत्वान्याचक्षते' इति तत्रत्यगीताभाष्यवाक्येन सांख्यवत्स्वमतेऽपि मनस इन्द्रियत्वमवेति सूचितम् । अत एव 'इन्द्रियाणां मनश्चास्मि' इति गीताभाष्ये 'इन्द्रियाणामेकादशानां मनश्चास्मि इत्युक्ति . ‘त इन्द्रियाणि' इत्यादिसूत्रभाष्ये स्मृतौ त्वेकादशेन्द्रियाणीति मनोऽपीन्द्रियत्वेन श्रोत्रादिवत्संगृह्यते' इत्युक्तिः ; तत्रैव तद्विवरणब्रह्मविद्याभरणे स्मृतौ त्वेकादशेति -- " इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः' इत्यादी इत्यायुक्तिः एवं भामत्याधुक्तिश्च संगच्छते । अतो मनस इन्द्रियत्वं शङ्कराचार्याणामप्यभिमतामिति ॥
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy