SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ सरः] प्रवेशाप्ययश्रुत्योराशयः वागादीन्द्रियत्वसाधनाय प्रतिबन्दिश्च 445 तत्वमुक्ताकलापः रूपादिज्ञानसिद्वौ यदि करणतया कल्पनं सर्वार्थसिद्धिः रूपादीति । अयं भावः—यद्यागमः प्रधानीक्रियेत तदा 'इन्द्रियाणि दशैकं च' * इति व्यवतिष्ठेत । यदा तु क्रिया करणपू. आनन्ददायिनी मागमपक्षे स्वपक्षासद्धि(नस्य) स्स्यादित्याह-—यद्यागम इति । अनुमानपक्षेऽपि प्रतिबन्दिमुखेन स्वमतसिद्धिमाह-यदा तु इत्यादिना । सुखा भावप्रकाशः ___* इन्द्रियाणीत्यादि-अत्र ‘पञ्चचेन्द्रियगोचराः' इति द्वितीयपादे चशब्दाव्यवहितपूर्ववर्तिपञ्चपदार्थे इन्द्रियगोचरपदार्थान्वयवत् प्रथमपादे एकपदार्थेऽपि इन्द्रियपदाथान्वयः प्रतिपिपादयिषित इति प्रतीयते । यदि मनस इन्द्रियत्वं नाभिप्रैष्यद्भगवान् तदा ‘इन्द्रियाणि दश मनः, इत्येवावक्ष्यत् ; न च तथोवाच! अतो मनस इन्द्रियत्वमनेन सिध्यति । श्रुतिषु मनस इन्द्रियेभ्यः पृथनिर्देशेनानिन्द्रियत्वव्यामोहं शमयितुं 'एकादशेन्द्रियाणि' इत्याद्युक्तौ श्रुतिविरुद्धया स्मृत्या नाभीष्टसिद्धिारति शङ्का स्यात्, तदपनोदनाय 'इन्द्रियाणि दशैकं च' इत्युक्तिः । अत्र मनसः प्राधान्यबोधनाय भिन्नराशीकरणं ; तेन च मनसः प्राधान्यविवक्षया श्रुतिषु पृथनिर्देशः उपपद्यते इति न ततोऽनिन्द्रियत्वसिद्धिः । एतदेवाभिप्रेत्य शङ्कराचार्यैः गीताभाष्ये 'इन्द्रियाणि दश; श्रोत्रादीनि पञ्च बुद्धयुत्पादकत्वाद्बुद्धीन्द्रियाणि; वाक्पाण्यादीनि पञ्च कर्मनिर्वर्तकत्वात् कर्मेन्द्रियाणि ; तानि दश एकं च ; किं तत् ?
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy