________________
448
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
जडद्रव्य
सर्वार्थसिद्धिः कथं तर्हि दूरस्थं व्यवहितं वा न प्रकाशयति ? इत्थम् - यथा अयस्कान्तादेरव्यवहितानतिविप्रकृष्टाकर्षकत्वं तथेह प्रकाशकत्वम् । आभिमुख्यविशेष एव च बाबैरुक्तस्संबन्धोऽस्तु । नन्वयस्कान्तादिवदाभिमुख्याभावेऽपि दर्पणादिभिः स्वमुखादेः पश्चाद्भागवर्तिनां च दर्शनं कथं स्यात् ? भवतो वा कथम् ? चाक्षुषस्य तेजसः प्रतिलोमवृत्त्येति चेत् सा कुड्यपाषाणादौ कथं न जायते ? मणिसलिलदर्पणादिषु च कथं भवति ? अपर्यनुयोज्यतत्तद्वस्तुस्वभावविशेषादिति चेत् । अस्तु तर्हि स एव सन्निधिविशेषसामर्थ्यादनभिमुखवस्तुनि दर्शनस्य हेतुः; द्रव्यान्तरकल्पनाद्वरं
. आनन्ददायिनी भावः । दूरस्थादिप्रकाशनरूपातिप्रसङ्गं प्रतिबन्धा परिहरति-इत्थमिति । अयस्कान्तादेस्संबन्धाभावेऽप्याकर्षे यथा नातिप्रसङ्गस्तथेहापीत्यर्थः । सम्बन्धेनैवातिप्रसङ्गः परिहरणीय इति यदि तदा सोऽप्यस्तीत्याहआभिमुख्यविशेष इति । (ननु) आभिमुख्यस्य (स्याव्याप्तत्वत्) न संबन्धत्वमिति शङ्कते---नन्वयस्कान्तादिवदिति । अतिरिक्तेन्द्रियाभ्युपगमवादिनोऽपि पाश्चात्येन चक्षुषस्संबन्धाभावात् कथं प्रकाश इति चोद्यं समानमित्याह-भवतो वेति । दर्पणाद्यभिघाताच्चाक्षुषतेजसः प्रतिलोमगतिर्भवतीति भावः । सेति-तैरपि प्रतिघातात् सा प्रतिलोमवृत्तिर्जायेताविशेषादिति भावः । परिहारमाशङ्कते-अपर्यनुयोज्येति । स एव-वस्तुस्वभाव एव । सन्निधिविशेषः --दर्पणापेक्षयाभिमुख्यरूपः । ननु सामर्थ्यविशेषस्यापि कल्प्यत्वादिन्द्रियकल्पने कः प्रद्वेष इत्यत्राहद्रव्यान्तरकल्पनादिति । प्रतिफलनं दर्पण एव न कुड्यादाविति प्रति