SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ 436 सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे जडद्रव्य तत्वमुक्ताकलापः भवति गमकतामात्रमप्यञ्जनादौ सर्वार्थसिद्धिः करणभूतेन्द्रियापेक्षया तेषामेव दीपादिवत् सहकारित्वमनुपपन्नमित्यर्थः । दीपादीन् प्रति सहकारित्वान्नासिद्धिरिति चेत् ; तर्हि प्रमातृप्रमेययोरपि तथात्वात्तत्सिद्धिस्स्यात् । तयोस्सतोरपि कदाचित्कार्य नास्तीति चेत् ; तावता करणत्वं माभूत् ; तत्सहकारित्वं तु सिद्धमेव । दीपे च सति भाव एवेति नियमो नास्ति । संप्रयोगविशेषसाहित्यात्स्यादिति चेत् ; तर्हि तयोरपि ततस्स्यादेवेत्यनैकान्त्यम् । एतेन करणत्वादिविकल्पानादरेण रूपादिबोधकद्रव्यत्वमानं हेतुरित्यपि निरस्तम् । तव्यनक्ति-भवतीत्यादिना । आदिशब्देन प्रमात्रादिसंग्रहः । आनन्ददायिनी मित्यर्थः । सहकारित्वं किं करणं प्रति ? उत कारणमात्रं प्रति ? इति विकल्प्य आये आह—करणेति । तेषामेव–इद्रियाणामेव । अनुपपन्नमिति-सहकारिसहकारिमतोश्रृंदाधीनत्वादिति भावः । द्वितीयमाशङ्कय दूषयति–दीपादीनित्यादिना । तथात्वात्—सहकारिस्वात् । तत्सिद्धिस्स्यात्-तैजसत्वसिद्धिस्स्यात्। सदभावात्तत्र व्यभिचार(इति भावः)स्स्यादित्यर्थः । ननु करणत्वमेव सहकारित्वेन विवक्षितमिति चेत् ; तत्राह-दीपे चेति । तथाच असाधारण्यं तदवस्थमिति भावः । तयोरपीति-प्रमातृप्रमेययोरप्युक्तविधया नियमरूपकरणत्वसंभवेनानैकान्त्यमित्यर्थः । तृतीय आह-एतेनेति । आदिशब्देनेति-ननु प्रमा
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy