SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ सरः] पूर्वोक्तहेतोःद्वितीयविकल्पेऽसिद्धिः विकल्पान्तरे व्यभिचारश्च 437 सर्वार्थसिद्धिः अञ्जनस्य शक्ये प्रतिबन्धनिवर्तकत्वमात्रमिति चेन्न; अशक्ये गूढनिधिदर्शनादौ शक्त्याधानेन सहकारित्वदृष्टेः। शक्त्याधायकं हि सहकारीति चेन ; दीपादावपि तथा क्लूप्तिप्रसङ्गात् । सत्तयैव हेतुत्वं तत्र दृष्टमिति चेत् ; अत्रापि तथास्तु अविशेषात् । येच तत्तदिन्द्रियदोषैरपि रूपादिधीरस्तीति मत्वा शरीरयोगे सत्येव साक्षात्प्रमितिसाधनम् । इति लक्षयन्ति; तन्मते तत्तद्दोपैरप्यनैकान्त्यम् । तेषां आनन्ददायिनी तृप्रमेययोर्न स्वरूपमात्रग्रहसहकारित्वं; रसादिग्रहं प्रत्यपि सहकारित्वात् । रसादिग्रहासहकारित्वे - सति रूपग्रहसहकारित्वस्य विवक्षितत्वात् ; तथाच न व्यभिचार इति चेन्न ; दृष्टान्तासिद्ध्या तथा विवक्षाया असंभवात् । तेषामपि सन्निकर्षतया स्वनिष्ठस्पर्शादिव्यञ्जकत्वादिति भावः । इदञ्च अवधारणाविवक्षायां । तद्विवक्षायां त्वजनादिद्रव्यसंस्कारकद्रव्ये दोषविशेषे च व्यभिचारो बोध्यः । अञ्जनस्येति-तथाच उपलब्धिसाधकत्वाभावान्न व्यभिचार इति भावः । दीपादावपीति-तस्य शक्तयाधायकत्वेन सहकारित्वाभावप्रसङ्गादित्यर्थः । सत्तयैवेति-दीपादीनां चक्षुरादौ शक्तयाधायकता नास्ति (स्तीत्यर्थः ।) स्वरूपेण हेतुत्वादिति भावः । अत्रापीति-अञ्जनादावपि स्वरूपेण हेतुताक्लप्तिरस्तीत्यर्थः । येचेति-नयनगतपित्तद्रव्येण शङ्ख पित्तरूपस्योपलम्भात् रसनगतदोषेण क्षीरादौ तिक्तताया उपलम्भात् तव्यावर्तनाय इन्द्रियलक्षणे प्रमितिविशेषणं तार्किकर (क्षणकृदादयः प्रतिक्षिपन्ति) क्षादावुक्तमित्यर्थः । अनैकान्त्यमेवोपपादयति-तेषामिति ।
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy