SearchBrowseAboutContactDonate
Page Preview
Page 504
Loading...
Download File
Download File
Page Text
________________ सरः] इन्द्रियभौतिकत्वं परोक्तहेतुस्वरूपविकल्पेन प्रथम साधारण्य दोषद्भावनम् 435 तत्वमुक्ताकलापः तत्साहाय्यं त्वसिद्धं ; सर्वार्थसिद्धिः न्धकारेण कश्विदेवं ब्रवीत्यपि । किं चक्षुषा ममैतेन ? दृष्टं दीपेन यन्मया ! | इति दीपादि साधकतमत्वं कश्चिद्रयात् । अतस्तपक्षवृत्तेर्हेतोः कथमसाधारणत्वम् ! इत्थं आलोकेन विनाऽपि जन्तुभेदेषु चक्षुषो रूपादिग्राहकत्वं सिद्धम् । अन्धकारे च मनुष्यादीनां तत्वतोऽन्यथा वा । अतः ईदृशं प्राधान्यमपेक्ष्य इन्द्रियेषु करणत्वं दीपादिषु सहकारित्वं च प्रख्यातमनुरुध्य विकल्पप्रवृत्तेरविरोधः । कोट्यन्तरं दूषयति - तत्साहाय्यं त्वसिद्धमिति । - आनन्ददायिनी अन्धकारेणोद्विग्नः -- भतिः । साधकतमत्वं - - करणत्वम् । कश्चित् इत्यंनेन लौकिकव्यवहार विरहस्सूच्यते) रापरिज्ञानादिरुच्यते । सपक्षवृत्तेरिति-- दीपादीनां सपक्षत्वमिति भावः । किं दीपादीनां रूपादिसाक्षात्कारमात्रे करणत्वम् ? उत मनुष्यकर्तृकरूपादिसाक्षात्कारे इति विकल्पमभिप्रेत्य आद्ये दूषणमाह - आलोकेन विनापीति । द्वितीये दूषणमाह – अन्धकारे चेति । ननु तर्हि व्यभिचाराद्दीपादेस्सहकारितापि न स्यात् । यदि तद्विशेषे विशदज्ञानादौ सहकारिता ; तत्र करणताऽप्यस्त्वित्यत्राह – ईदृशेति । रूपोपलब्धिमात्रे चक्षुषो यस्मिन् सति भवत्येवेति रूपं प्राधान्यमभिप्रेत्येत्यर्थः । न च विशदज्ञानं प्रत्यपि करणत्वम् ; अन्यत्र क्लृप्तचक्षुष एव करणस्य सत्त्वेन सहकारितामात्रत्वात् ? अन्यथा गौरवात् । कोट्यन्तरमिति-सहकारित्व 28*
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy