________________
434
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
जडद्रव्य
तत्वमुक्ताकलापः यदि करणतया स्यादसाधारणत्वम् ।
सर्वार्थसिद्धिः वा; बहिरिन्द्रियव्यवस्थापकत्वादित्येव हेतुः । तथा श्रोत्रं भौतिकं बाह्येन्द्रियत्वात् चक्षुरादिवत् । आकाश इन्द्रियारम्भको भूतत्वात् भूतान्तरवत् इति । शब्दोपलब्धिर्वा भूतेन्द्रियकरणिका बाह्येन्द्रियव्यवस्थापकोपलब्धित्वात् रूपोपलब्धिवत् । तत्रायेषु चतुर्खनुमानेषु हेतुविकल्पम(नूद्य)भिप्रेत्य दूषयतियदि करणतयेत्यादिभिः। यस्मिन् सति कार्य भवत्येव तत्करणम् । तच्च सन्निकर्षविशेषविशिष्टतयेन्द्रियाणाम् । ननु
आनन्ददायिनी यानुमापकत्वं चेत् द्रव्यत्वादौ व्यभिचारः' इत्यपास्तम् । गुणत्वादिति शब्दत्वादौ व्यभिचारवारणाय । असिद्धिवारणाय साक्षात्कारविषयेति । सुखादौ व्यभिचारवारणाय बहिरिन्द्रियेति । द्रव्यत्वादौ व्यभिचारवारणाय इन्द्रियपञ्चकति विशेषणमिति ध्येयम् । बहिरिन्द्रियव्यवस्थापकत्वादिति--पूर्ववदेवार्थः । शब्दत्वादी साध्यसत्त्वात् न व्यभिचार इति गुणत्वस्यानुपादानम् । शब्दोपलब्धिरिति-उपलब्धित्वं शाब्दोपलब्धौ व्यभिचारीतीन्द्रियेति विशेषणम् । सुखाद्युपलब्धौ व्यभिचारवारणाय बाह्येति विशेषणम् । हेतुविकल्पमभिप्रेत्येति-अभिव्यञ्जकादित्यत्र हेतावभिव्यञ्जकत्वं किं क(का)रणत्वं ? यद्वा क(का)रणसहकारित्वं ? अथवा बोधकत्वमात्रमिति विकल्पमभिप्रेत्येत्यर्थः । तच्चेति- इन्द्रिया णामेव तथात्वात् पक्षमात्रवृत्तित्वेन असाधारण्यमिति(त्यर्थः) भावः ।