________________
सरः]
इन्द्रियभौतिकत्वे परोक्तानुमानानुवादः
433
तत्वमुक्ताकलापः साध्ये रूपादिग्राहकत्वं
सर्वार्थसिद्धिः ग्राहकत्वेन विशेषितमित्यर्थः। चक्षुस्तैजसं रसायग्राहकत्वे सति रूपग्राहकद्रव्यत्वात् दीपवत् इति । एवं त्वगिन्द्रियं वायवीयं स्पर्शादिषु मध्ये स्पर्शस्यैव ग्राहकत्वात् अङ्गसङ्गिसलिलशैत्याभिव्यञ्जकवायुवत् । रसनस्याप्यत्वे रसस्यैवेति दन्तान्तस्तोयदृष्टान्तः। घाणस्य पार्थिवत्वे गन्धस्यैवेति कुङ्कुमगन्धाभिव्यञ्जकनिम्बत्वगादि निदर्शनम् । श्रोत्रस्य तु नभस्त्वे श्रोत्रं गुणावान्तरजात्या स्वगुणसजातीयगुणग्राहकं बाह्येन्द्रियत्वात् चक्षुरादिवत् इति । शब्दो गुणावान्तरजात्या स्वसजातीयगुणवतेन्द्रियेण गृह्यते बहिरिन्द्रियव्यवस्थापकगुणत्वाद्रूपादिवत् । शब्दो भूतेन्द्रियग्राह्य इति
आनन्ददायिनी व्यभिचारवारणाय रसाद्यग्राहकत्व इति । परमाणौ व्यभिचारवारणाय रूपग्राहकत्वादिति । सन्निकर्षादौ व्यभिचारवारणाय द्रव्यत्वा दिति । घटादिग्राहकतयाऽसिद्धिप्रसङ्गादत्रापि रूपादिष्विति बोध्यम् । तदर्थश्च--रूपादिषु पञ्चसु मध्ये इति । अत्र ग्राहकत्वं लौकिकप्रत्यक्षजनकत्वं ; तेनोपनयादिवशाद्र(दिना र)सादिग्राहकतया नासिद्धिः । एवमुत्तरानुमानेप्वपि द्रष्टव्यम् । रसस्यैवेति-रसस्यैव ग्राहकत्वं हेतुरित्यर्थः । एवं गन्धस्यैवेत्यादावपि बोध्यम् । निदर्शनं -- दृष्टान्तः। बहिरिन्द्रियेति–इन्द्रियपञ्चके स्वग्राहकेन्द्रियेतरेन्द्रियनिरूपितस्वग्राहकेन्द्रियनिष्ठभेदानुमितिहेतुसाक्षात्कारविषयगुणत्वादित्यर्थः । तेन ‘इन्द्रियव्यवस्थापकत्वं इन्द्रियसाधकत्वं; न च शब्दजन्यत्वामीन्द्रयस्य! इन्द्रिSARVARTHA.
28