________________
दूषणान्तरनिरासः सत्त्वदूषणस्यासत्त्वेऽपि तुल्याताच 425
सर्वार्थसिद्धिः
इति । अत्र ' तदसत्ततः' इत्यत्र स्थान ' * सदिदं ततः इति पाठ्यम् । विशेषणतया उपलक्षणतया वा सत्तासंबन्धिनि नासत्त्वारोपश्श क्यत इति ।
सत्त्वं च सदसद्वेति विकल्प्यानिष्टकल्पने । असत्त्वं सदसद्वेति विकल्प्योत्तरमूह्यताम् || स्वक्रियादिविरोधश्च सूत्रप्रभृति दुस्तरः ।
आनन्ददायिनी
सरः]
1
न भवतीति नसमासः । तथा सत्त्वस्याप्रवेशादसतः कारणत्वं तत एवायातमित्यर्थः । त्वदुक्तमेव ' तदसत्ततः' इत्यत्र तदसदिति स्थाने सदिदमिति पदप्रक्षेपेण तव दूषणं भवतीत्याह - अत्रेति । इदं ( कारणं) तत् सदेवेत्यर्थः । तदेवोपपादयति--विशेषणतयेति । उभयथाऽपि सत्ताश्रयत्वात्कारणस्येति भावः । ननु सत्तायात्सत्ताश्रयत्वेऽनवस्था । तदना श्रयत्वे तस्या असत्वे (न) कारणस्याप्यसत्त्वमित्यत्राह — सत्त्वं चेति सदसद्वेति — कारणस्यासत्त्वं सन्न वा आद्येऽनवस्था, सत्त्वान्तरापतिश्च । असत्त्वस्यासत्त्वं सत्त्वाश्रयत्वेनाभिमतस्यासत्त्वशून्यतया सर्वसत्त्वं स्यात् । द्वितीये तु असत्त्वस्यैवासत्त्वाभावरूपसत्त्वाश्रयतया (त्वात् ) सत्त्वं; अवर्जनीयतया तद्वदेव सर्वस्यासत्त्वमिति भावः । पूर्वोक्तं स्वक्रियाव्याघातं विशदमाह - स्वक्रियादीति सूत्रप्रभृति --- त्वयिशा
भावप्रकाशः
'* सदिदमिति – सत्ताया विशेषणत्वेऽनवस्थायाः स्वपरनिर्वाहेन परिहारात् उपलक्षणत्वे सत्त्वेनापाततो व्यवस्थापयितुं शक्यत्वस्य कदाचित्सत्वे अन्यदाऽपि तदभावो न संभवतीति भावः ।