SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ 426 सब्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे जडद्रव्य सर्वार्थसिद्धिः गुरुशिष्यादिवाक्यानां परबोधार्थता यतः ॥ तेभ्यश्चैतन्यमित्यादि वदता गुरुणा स्वयम् । किण्वादिभ्यः प्रसिध्यन्ती मदशक्तिर्निदर्शिता ।। प्रत्यक्षाल्लोकशब्दोक्तादधिकं च तदायतम् । अभाष्यत भवत्पूर्वैः प्रत्यक्षं चार्थसाधकम् ॥ अर्थकामौ पुमौं च दृष्टोपायरु(पायावु) (पाधी उ) दीरिती। प्रीयसे दूयसे च त्वं बिभेषि च ततस्ततः ॥ इष्टं प्राप्तुमनिष्टं च निवर्तयितुमुद्यतः । तत्सिद्धौ चरितार्थस्त्वं लोकवतिक न मन्यसे । बुभुक्षुरन्नमादत्से श्वभक्ष्यादि जहासि च । परोक्तया प्रतिपद्यार्थ प्रतिब्रूषे जिगीषया ॥ आनन्ददायिनी स्त्रभूतसूत्रमारभ्येत्यर्थः । तत्र हेतुमाह---- गुरुशिष्येति । परबोधनार्थत्वं परप्रतिपत्तिप्रयोजनकत्वं ; तच्च साध्यसाधनभावनिवन्धनमिति भावः ! त्वयैव लोकसिद्धकार्यकारणभावस्य दृष्टान्तीकरणादपि विरोध इत्याहकिण्वादिभ्य इति । तदीयभाष्यविरोधमप्याह-प्रत्यक्षादिति । अधिकं - अधिरुपरिभावार्थः । प्रत्यक्षम्यो(क्षादु)परिभूतं— फलभूतमित्यर्थः । दृष्टोपाधी—अन्वयव्यतिरेकसिद्धकारणकौ । ततस्तत इति--- प्रीतिदुःखभयहेतुभ्य इत्यर्थः । उद्यतः– यत्नवान् । तत्सिद्धौ---इष्टप्रात्यनिष्टपरिहारसिद्धौ । चरितार्थः--प्राप्तप्रयोजनकः । ततः किमित्यत आह-लोकवदिति । पूर्वोक्तानां सर्वेषां साध्यसाधनभावप्रतिपत्तिनिवन्धनत्वात् लोकवत् किमर्थं तन्नाभ्युपगच्छसीत्यर्थः । बुभुक्षुरिति
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy