________________
424
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
सर्वार्थसिद्धिः अन्यदपि यदुक्तं1*अन्तर्भावितस(त्वं)त्तं चेत्कारणं तदसत्ततः । नान्तर्भावितस(त्वं)त्तं चेत्कारणं तदसत्ततः ॥
आनन्ददायिनी दूषयितुमनुभाषते—अन्यदपीति । (अद्वैतमतं दूषयितुमनुभाषते)अन्तर्भावितस(त्त्वं)त्तं चेत्कारणमिति । सत्त्वविशिष्टं कारणं चेत् सत्त्वस्यापि कारणकोटिप्रवेशश्चेदिति यावत् । पूर्वसत्त्वं सत्त्वविशेष्ये विशेषणीभूतसत्त्वे वा नास्तीत्यसतः कारणत्वमायातमित्याह-तदसदिति । न हि स्वविशिष्टे स्वस्मिन् वा स्वस्य वृत्तियुज्यते ; न च सत्त्वान्तरं ; तस्यासत्त्वे तद्विशिष्टस्याप्यसत्त्वं स्यात् । नान्तर्भावितेति-अन्तर्भावितसत्तं
भावप्रकाशः सतस्सज्जायेत' इति श्रुतिसहकृततच्छ्रतिस्वारस्यात् कार्यकारणयोरेकरूपमेव सत्त्वमिति प्रतीयते । अत एव 'बहु स्याम्' इत्यादिश्रुतौ नामरूपविभागविभक्तकार्यसत्तायाः कारणनिष्ठत्वाभिधानसङ्गतिः । एतेन
अस्य द्वैतेन्द्रजालस्य यदुपादानकारणम् ।
अज्ञानं तदुपाश्रित्य ब्रह्म कारणमुच्यते ।। इति वार्तिकमपि भवत्परिष्कृतपक्षकक्षीकृतमिव । कारणवाक्येष्वज्ञानवाचिपदाभावाच्च । एतच्च नायकसरे (४३) स्थापयिष्यत इति । 1* अन्तर्भावितसत्तं चेदित्यादि-एतद्विवरणं खण्डनतद्व्याख्ययोलघुचन्द्रिकादौ चावधेयम् । 'अत्रासत्त्वं सत्त्वेनापाततो व्यवस्थापयितुमशक्यत्वं' इति आनन्दवर्धनटीकायाम् ।