________________
सरः]]
हेतुत्वस्य सत्त्वघटितत्वे दूषणपरिहारः
423
भावप्रकाशः अयमाशयः--अस्ति हि भगवतो व्यासस्य ब्रह्ममीमांसाद्वितीयसूत्रम् 'जस्माद्यस्य यतः' इति । तत्र च सत्ताया विशेषणतयोपलक्षणतया कारणकोटिविकल्पवत् जन्मादीनामुपलक्षणतया विशेषणतया वा लक्षण तति विकल्पेनाक्षेपे समाधानमुच्यते । तत्र च यतो वा इमानि भूतानि जायन्ते' इति श्रुतिमूलम् । इयं च श्रुतिः----
उत्पन्नश्च स्थितो नष्ट उक्तो लोकोऽर्थतस्त्वया । कल्पनामात्रमित्यस्मात् सर्वधर्माः प्रकाशिताः । कल्पनाऽप्यसती प्रोक्ता यथा शून्य विकल्प्यते । निरुद्धादनिरुद्धाद्वा बीजादङ्कुरसंभवः ।। मायोत्पादवदुत्पादः सर्व एव त्वयोच्यते । अतस्त्वया जगदिदं परिकल्पसमुद्भवम् ।। परिज्ञातमनुत्पन्नमसद्भुतं न नश्यति । नित्यम्य संसृतिर्नास्ति नानित्यस्य च संसृतिः ॥ स्वप्नवत्संसृतिः प्रोक्ता त्वया तत्वविदां वर ॥ (नागार्जुनस्तवे) यथा माया यथा स्वप्नो गन्धर्वनगरं यथा । तथोत्पादस्तथा नाशः स्थितिस्तद्वद्भविष्यति ॥ (माध्यमिकवृत्तौ
कारिका) इति माध्यमिकमतं कटाक्षयति । तत्र भूतशब्दस्सत्ताश्रयार्थकः । अत एव कार्यसर्ववस्तुसंग्रहः । जगत्सत्तायां मानं प्रत्यक्षविषयार्थकेदंशब्देन दर्शितम् । 'अपितु देवपुत्र परमार्थसत्यं सर्वव्यवहारसमतिक्रान्तं निर्विशेषमसमुत्पन्नमनिरुद्धमभिधेयाभिधानज्ञेयज्ञानविगतं' इत्यार्यसत्यद्वयावतारोक्तं सत्यं यदि साधकादसेत्स्यत् तदा 'इन्द्रियैः' इत्यादि (बोधि + पं ३७५) कारिका समगंस्यत। न च तत्र साधक किञ्चित् । अतः प्रत्यक्षतो जगतस्सत्ता सिध्यति । एवं 'कथम.