SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ 414 सर्वार्थसिद्धिसहिततत्वमुक्ताकलापः सर्वार्थसिद्धिः क्रमेणोपाधिभिर्योगस्साकल्येनांशतोऽपि वा । कालस्य न घटेतेति स्थिरवादी कथं वदेत् ॥ प्रत्यक्षेण वि (प्रत्यक्षप्रति ) रुद्धश्च क्षणभङ्गपरिग्रहः । अपसिद्धान्तमादध्यात् मानमन्यदनिच्छतः । अथ लोकायतान्तस्स्थमनुमानं च मन्यसे ॥ आगमोप्यविसंवादी तदन्तस्स्थातुमर्हति । य(त्र)तः प्रवृत्तिसामर्थ्यं न लोकादुपलभ्यते । आनन्ददायिनी [ जडद्रव्यं भ्युपगन्तव्यत्वादिति भावः । कृत्स्नैकदेशविकल्पं परिहरति-क्रमणेति । तस्यैकस्य कालस्य क्रमेणोपाधियोगो वक्तुं शक्यः । क्षणिकत्वपक्ष एव परं वक्तुं न शक्यते । एकेनानेकेषामानन्तर्येण योगः क्रमवदुपाधिसंबन्धः । न च कृत्स्रैकदेशविकल्पदोषः उभयथाऽपि दोषाभावात् । न च सर्वस्यापि पूर्वपरत्वयोः प्रसङ्गेन विभागाभावः ; तत्तत्पूर्वोपाधिकाले सर्वस्य पूर्वत्वात् तत्तत्परो (तत्तदप) पाधिकाले सर्वस्य परत्वाच्च । नचैकदेशासंभवः ; सततपरिणामवादिभिरस्माभिस्तद (स्या) ङ्गीकारे विरोधाभावाच्चेत्यर्थः । ननु क्षणभङ्गाङ्गीकारात् क्रमवदुपाधियोगो न घटते इत्याशङ्कय किं प्रत्यक्षण क्षणभङ्गस्वीकार उतानुमानेन ? इति विकल्पमभिप्रेत्य आद्यं दूषयति – प्रत्यक्षेणेति । प्रत्यभिज्ञारूपप्रत्यक्षेण स्थैर्यगोचरेणेत्यर्थः । द्वितीयं दूषयति- अपसिद्धान्तमिति । तव प्रत्यक्षादन्यस्याप्रमाणत्वादिति भावः । लोकायतान्तस्स्थमिति-लोकायतं चार्वाकशास्त्रं तत्रानुमानमप्यन्तर्गतं तथाच नापसिद्धान्त इति भावः । केचित्तु (अन्येतु) लोकायतान्तस्थं - ( लोकायतं तटस्थं ) प्रत्यक्षान्तर्गतमित्यर्थ इत्याहुः | आगमोऽपीति तुल्यत्वादिति भावः । किञ्च ..
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy