SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ सरः] कारणस्य स्वरूपालाभशङ्कापरिहारः कारणस्य पूर्वत्वनिरूपणंच 413 सर्वार्थसिद्धिः वात् । कालान्तरासत्त्वेन तुच्छत्वे प्रत्यक्षविषयोऽपि तथा स्यात् ; तथाचेयं (तथा च ते) माध्यमिकगतिः। अथ ब्रूषे ; पूर्वत्वमेव कारणस्य दुर्निरूपं पूर्वकालवृत्तित्वं हि तत् ! काले च पूर्वत्वमुपाधिकृतम् । स चोपाधिर्यद्ययमेव तदा तदधीनं कालस्य पूर्वत्वं कालाधीनं चोपाधेरित्यन्योन्याश्रयः । अन्यापेक्षायां चक्रकं अनवस्थापि । कालस्य क्रमवदुपाधिसंबन्धभेदानेदश्च कृत्स्नैकदेशविकल्पदुःस्थ इति । एवं ब्रुवता किं पौर्वापर्यमेव न दृष्टं ? दृष्टमपि वा बाधित ? नाद्यः; स्वाभ्युपेतलोकव्यवहारविरोधात् । न द्वितीयः; सर्वेषां नित्यत्वतुच्छत्वयोरन्यतरप्रसङ्गात् । अतः काले सत्यसति वा क्रमस्तावदुरपह्नवः आनन्ददायिनी प्रयोजकं लाघवादित्यत्राह—कालान्तरेति । प्रत्यक्षविषयस्यापि काला. न्तरासत्त्वादिति भावः । कृत्स्नैकदेशेति-कालः क्रमादुपाधिभिः कात्सर्येन संबध्यते अथैक(थवैक)देशेन ? न प्रथमः ; सर्वोऽपि कालः पूर्वो वा परो(रोऽपि)वेति पूर्वापरविभागो न स्यात् । न द्वितीयः ; एकदेशाभावादिति विकल्पदुःस्थत्वादित्यर्थः । स्वाभ्युपेतति-स्वाभ्युपेतव्यवहारविरोधो लोकव्यवहारविरोधश्चेत्यर्थः । पूर्वः पर इति व्यवहारस्य सर्वसिद्धत्वादहेतुकस्य नोत्पत्तिः । 'पूर्वं नैव स्वभावतः ' इति चार्वाकव्यवहाराच्चेति भावः । सर्वेषामिति । इदं पूर्वमिदं परमिति पौर्वापर्यविशिष्टप्रतीतिदृश्यते ; तत्र विशेषणीभूतपूर्वत्वमात्रबाधे नित्यत्वं; विशेष्यबाधे विशिष्टबाधे च तुच्छत्वं स्यादित्यर्थः । ननु कालानभ्युपगन्तुः कथामित्यत्राह–अतः काल इति । कालशब्दवाच्यस्य कस्य चित् तैरप्य
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy