________________
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
सर्वार्थसिद्धिः
कारणमित्युक्तं स्यत् । दृष्टा च मृदिते मृत्पिण्डे घटोत्पत्तिः । तथाच स्वात्मानमलभमानस्य कथं परसाधकत्वम् ? अन्यथा चिरातिक्रान्तस्य च स्यादेव कारणत्वं । तुच्छस्य च कारणत्वे कार्यत्वमपि तुच्छं स्यात् नित्यं वेति ; तदपि न ; पूर्वक्षणसत्त्वमेव हि कारणस्य कार्योपयोगि ! न च तत्तदा नास्ति ! कार्यक्षणे तु कस्यचिदसत्वं न कारणत्वविरोधि । पूर्वं नष्टमित्य
साधु ; स्थिरवादे तदयोगात् । पिण्डस्य तु न साक्षात्कारणत्वं । न च पिण्डस्तत्प्रध्वंसो वाऽत्यन्ततुच्छ ः ! स्वकाले सद्भा
412
[जडद्रव्य
'आनन्ददायिनी
पूर्वकाल इत्यादौ पूर्वपदस्यातीतार्थकत्वादर्शनादित्यर्थः । अन्यथेति. - स्वरूपाभावस्योभयत्र तुल्यत्वादिति भावः । तुच्छस्येतिउपादानसमानस्वभावत्वादिति भावः । तुच्छस्य सार्वकालिकत्वात् कार्योत्पादे विलम्बात् तुच्छकारणानन्तरक्षणवर्तिप्रागभावप्रतियोगित्वं न स्यादित्यर्थः । अन्ये तु तुच्छस्य सार्वकालिकतया सार्वकालिक कार्यपरम्परा स्यादित्यर्थ इत्याहुः । किं कारणमात्रस्य स्वकार्यकालसत्त्वं वक्तव्यं कारणविशेषस्य वा इति विकल्प्य आद्यं प्रतिवक्तिपूर्वक्षणसत्त्वमिति । द्वितीयं प्रतिवक्ति - कार्यक्षण इति । निमित्तस्यासत्त्वं न विरोधि उपादानस्यासत्त्वं विरोध्यप्यत्र नास्तीति भावः । तदेवोपपादयति--पूर्व (मिति ) मेवेति । पिण्डत्वावस्थानाशेऽपि मृद उपादानस्य सत्त्वादित्यर्थः । पिण्डस्येति - पिण्डावस्थाया इत्यर्थः । न साक्षादिति – परिचायकत्व ( मात्र ) मित्यर्थः । स्वकाले इति -- सार्वकालिकासत्त्वमेव हि तुच्छत्वमिति भावः असत्त्वमात्रमेव तुच्छत्व
-