SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ सरः] कार्यकारणभावस्यद्विष्ठत्वप्रत्येकजननशक्तत्वतदभविावकल्पदूषणोद्धारः 411 सर्वार्थसिद्धिः समुदिता अपि । न हि नद्यस्समेत्यापि दहेयुः! नच सिकतास्संभूय तैलं जनयेयु; ! शक्तानामेव संभूयकरणे सर्वे कृतकराः स्युः । शक्तस्य कुर्वतोप्यन्याकाङ्क्षायां सर्वैरपि स्यात् । तथाच देशादिव्यवहितानामसन्निधेः कथ कार्यारम्भः। नहि कार्ये कारणानां साध्यांशभेदः! विभक्तदशायां समुदाये वा तस्यादृष्टेः । निरंशे गुणादौ च दुर्वचमेतदिति, अत्रोच्यतेसमुदितानां कार्यकरत्वमेव हि प्रत्येकमपि हि शक्तिः! कथमत्र वियुक्तैः कार्यकरणं ? कथं च समेतेषु कृतकरता? अतश्शक्तस्यापि सहकार्याकाङ्क्षायामतिप्रसङ्गश्च निरस्तः। यावत्कार्यसिद्धि नियतविषयत्वात्तस्या इति । ननु पूर्व कारणामित्युक्ते नष्टं आनन्ददयिनी । दूषयति--शक्तानामिति । एकस्यापि शक्तत्वेन कार्यस्य करणादितरैरपि तस्य करणे कुतः करणत्वमितीतर(कृतकरत्वमिति सहकारि) वैयर्थ्यमिति भावः । सर्वैरपि स्यादिति---अविशेषादिति भावः । अस्तु को दोष इत्यत्राह--तथाचेति । एकघटव्यक्तयुत्पत्तौ दण्डादिकारणताव(त्पत्तिस्थदण्डत्वादिकारणत्वाव)च्छेदकावच्छिन्नयावद्भिर्भवित - व्यमिति देशादिव्यवहितानां सन्निध्यसंभवादुत्पत्तिरेव न स्यादित्यर्थः । ननु सन्निहितं कारणं कार्ये कश्चिदंशं जनयति ; असन्निहितं च यदा सन्निधास्यति तदेतरांशं जनयतु कथं कार्यानारम्भ इत्यत्राह-नहि कार्ये इति । एतदिति - जन्यजनकत्वमित्यर्थः । यावत्कार्यसिद्धीतिएककार्यनिरूपितानि यावन्ति कारणतावच्छेदकानि प्रत्येकं तावदवच्छिन्नयत्किञ्चित्सत्त्व एव कार्यदर्शनादिति भावः । नन्विति--
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy