SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे सर्वार्थसिद्धि त्वे घटत्वनीलत्वादिवत् सर्वं प्रत्यपि स्यातां; अस्वभावत्वे कस्यचिदपि न स्यातामित्यपि नियतप्रतिसंवन्धिकस्वभावत एव तदुभयसिद्धेर्निरस्तं । दण्डादिकार्यत्वं घटादिकारणत्वं वा नीलादिवदेव पुरुषभेदेऽप्यविपर्यस्तमेव । अथ स्यात्; कार्यकारणभावस्य द्वित्वे द्वयोरपि द्वैरूप्यादविशेषविरोधभेदापत्तयस्स्युः । एकस्थत्वेऽपि कस्मिंस्तत्रैवमिति ; तत्र ब्रूमः कार्ये कार्यत्वं कारणे कारणत्वं च वर्तते ; तथाऽप्यन्योन्यनिरूप्यतया संबन्धव्यवहारादिसिद्धिरिति । स्यादेतत् ; न तावद्दण्डादयो मृदाद्यवयवाश्च प्रत्येकं घटाद्युत्पादनशक्ताः ; अदर्शनात् । अत एव न 410 [जडद्रव्य आनन्ददायिनी संभवति । स्वभावत्वव्याघातादिति भावः अस्वभावत्वे इति— तद्धर्मत्वाभाव इत्यर्थः । नियत प्रतिसम्बन्धिकेति — कार्यकारणत्वे स्वभावावेव । नचातिप्रसङ्गः ; संयोगादिवत्प्रतिसंबन्धिनियमादित्यर्थः । स्वभावत्वमेवोपपादयति-—- दण्डादीति । यथा नीलादिकं धर्मिविशेषनियतमपि तस्य स्वभावः पुरुषविशेषनियतं च न भवति तद्वदित्यर्थः । विपर्यस्तं--- विपरीतं तदन्यदिति यावत् । अविशेषेति – कार्यस्यापि कारणत्वं कारणस्य कार्यत्वं कार्यकारणयोस्स्वस्वापेक्षया पूर्वभावित्वपश्चाद्धावित्वरूपविरोध एकस्यैव कार्यकारणरूपेण भेदश्च स्युरि ( स्यादि) त्यर्थः । एकस्थत्वेऽपि — कार्यकारणयोरन्यतरमात्रवृत्तित्वेऽपि । यत्रेति यत्र कार्यकारणभाववै(भावाद्वै)रूप्यं तत्र उक्तदोषाः स्युरित्यर्थः । ननु मृदादयश्शक्ताः कार्यं जनयन्त्यशक्ता वेति विकल्पमभिप्रेत्य द्विर्तायं दूषयति— न तावदिति । अशक्तानां जनकत्वं व्याहतमिति भावः । आद्यं
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy