________________
सरः] किञ्चित्कारित्व कुवत्त्वतनिर्व्यापा-त्व तदभाव विकल्पदोषोद्धारः परानिष्टच 409
सर्वार्थसिद्धिः अत्रापि ब्रूमः—यत्र किमित्कारेणा हेतुत्वं दृष्टं यथा काष्ठादे|लादिना ; तत्र तथा । नचांनवस्था; हेतुसंपत्तिपरम्पराया अदोषत्वात् ; अतिरिक्तस्यात्रानिरूपणात् । यत्र तु द्वारनिरपेक्षं हेतुत्वं तत्रापि दर्शनबलात् किञ्चित्कारान्तरं न जनयितव्यं यतोऽनवस्था स्यात् । न चातिप्रसङ्गः; नियतपूर्वत्वग्राहिणा प्रत्यक्षेणैव तन्निवारणात् । अन्यथा तदपि ते प्रमाणं न स्यादिति विश्वापह्नवः । यञ्च कार्य कुर्वतोऽकुर्वतो वा कारणत्वम् ? आये कार्यस्यापि पूर्वसिद्धिप्रसक्तया कार्यत्वाभावः ; द्वितीये विरोधातिप्रसङ्गाविति; तदप्यपष्ठु ; भाविकार्यनुगुणव्यापारवत्त्वमेव कारणस्य कुर्वत्त्वं । तत्र कथं कार्यस्य स्वस्मात्पूर्वसिद्धिः? कुर्वत्त्वनिरूपणं तु भाविनाऽपि कार्येण बुद्ध्यारोहिणा सिध्येत् । एतेन निर्व्यापारस्सव्यापारो वा हेतुरित्याद्यपि दत्तोत्तरं । कार्य(त्व)कारणत्वयोस्स्वभा
आनन्ददायिनी अकिञ्चित्कुर्वतोऽपि जनकत्वे विशेषाभावात्तन्तुभिरपि घट उत्पद्यतेत्यर्थः । अतिरिक्तस्येति-हेतुसम्पत्तिपरम्परातिरिक्तस्येत्यर्थः । अन्यथेतिप्रत्यक्षस्य नियामकत्वाभाव प्रत्यक्षमात्रप्रमाणवादिनस्तवार्थसिद्धिरेव न स्यादित्यर्थः । आये कार्यस्यापीति-कृतिनिरूपकस्य कर्मणोपि प्राक्सत्त्वनियमादिति भावः । द्वितीये इति----अकुर्वतो जनकत्वरूपकुर्वत्त्वं विरुद्धं कृतिमत्त्वाभावेऽपि जनकत्वे सर्वं सर्वस्य कारणमित्यतिप्रसङ्गश्चेत्यर्थः । अपष्ठ–असारं । एतेनेति-पूर्वत्र कृतिरूपव्यापारविशेषः अत्र क्रिया(कृति)रूप साधारणव्यापारमात्रमिति भेदो ज्ञेयः । स्वभावत्वे इति-न हि घटस्वभावः कस्यचित् कस्यचिन्नेति