________________
सव्याख्य सर्वार्थसिद्धिसहिततत्व मुक्ताकलापे
सर्वार्थसिद्धिः
यथायथ (यथार्ह) ) मूह्यम् । ईदृशस्य जन्मन उपादानावस्थान्तरसाध्यत्वे कारणानंवस्थामात्रमापतति । सा च न दोष इति सर्वाविगीतम् । यच्च भिन्नत्वे गवाश्वयोरिव कार्यकारणता न स्यात् : अभिन्नत्वे च कथं सिद्धस्य साध्यत्वमिति; तन्नः कारणात्कार्यस्य भिन्नस्योत्पत्ति (दृष्टेः) दर्शनात् ॥
अन्यथा बुद्धिबोध्यादौ भिन्नत्वादिविकल्पतः । बोध्यत्वादिक्षतेर्न स्यात् स्वमतस्थापनाऽपि वः ॥ अथ किञ्चित्कारेणाकिञ्चित्कारणे वा कारणत्वं ? पूर्वत्र हेतुनां किञ्चित्कारजनase किञ्चित्कारान्तरापेक्षयाऽनवस्था । किञ्चित्कारस्यापि किञ्चित्कारजननापेक्षया ; उत्तरत्रातिप्रसङ्ग इति ।
408
[जडद्रव्य
आनन्ददायिनी
वस्थासामानाधिकरण्येन ध्वस्तो घट इति व्यपदेश इत्यर्थः । ननूपादानावस्थाया जन्मत्वेऽपि प्रागसत्त्वेन साध्यत्वादनवस्था स्यादित्यत आहईदृशस्येति । सर्वाविगीतमिति - बीजांकुरादौ तथा दर्शनादिति भावः । अन्यथेति---दर्शनस्यानियामकत्वे इत्यर्थः । घटबुद्धिर्घटाद्भिन्ना न वा ? आद्ये पटवत् तद्विषया न स्यात् । द्वितीयेऽपि स्वयं तद्विषया न स्यात् 1 बोध्यं बुद्धिसंबद्धं प्रकाशते असंबद्धं वा? आद्येऽपि स संबन्धस्संबद्धोऽसंबद्धो वा ? प्रथमेऽनवस्था; द्वितीये संबन्धस्यासंबद्धत्वे तन्मूलकबोध्यसंबन्धस्याप्यभावेन प्रकाशाभावादिति प्रसङ्गयोः प्रसङ्गः ; अत एवाद्यद्वितीयोऽपि नेत्यादि (त्याद्य) विकल्पसंभवादिति भावः । किञ्चित्कारः – व्यापारविशेषः । प्रकारान्तरेणाप्यनवस्थामाह – किञ्चित्कारस्यापीति । किञ्चित्कारस्यापि कार्यजननार्थं किञ्चित्कारापेक्षयां द्वितीयाऽनवस्थेत्यर्थः । उत्तरत्रेति—