SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ पौर्वान्नियमौ दुरपलपौ क्षभङ्गानुपपत्तिः अंगमस्य प्रमाणताच 415 सर्वार्थसिद्धिः अनुमीयेत तत्राऽपि प्रामाण्यमविशेषतः || अस्त्वेवम् ; तस्य नियमो न शक्यः ; अस्मादेवेदमनन्तरमिति । तदेतन्नियतपूर्वत्वं हि न जातेर्जातिमपेक्ष्य ! द्वयोरपि त्रैकालिकत्वात् । नच जातेर्व्यक्तिमपेक्ष्य ; सर्वासां जातीनां पूर्वत्वेन कारणनियमासिद्धेः । जात्यन्तरापेक्षया कार्यत्वं न दृष्टमिति चेत्; किमतः पूर्वमेतजातिकार्यत्वमपि दृष्टं ? एकव्यक्तेश्व नियमो दुर्ग्रहः अननुवृत्तेः । कृत्तिकारोहिण्योरपि हृदयभेदेष्वेव व्याप्तिगृह्यते । एतेन व्यक्तेर्जात्यपेक्षया व्यक्तयपेक्षया वा पूर्वत्वनियमोऽपि प्रत्युक्त इति ; अयमप्यनुक्तोपालम्भः ; एततद्धर्मकादेतद्धर्मक आनन्ददायिनी अनुमानप्रामाण्यमावश्यकमित्याह-यत इति । यतो लोकात् प्रत्यक्षात् । प्रवृत्तिसामध्ये प्रवृत्तिजनकता । प्रामाण्यसंदेहादिना नोपलभ्यते तत्राप्यविसंवादिप्रत्यक्षाविशेषात्प्रामाण्यमनुमीयेत ततः प्रवृत्तिः अन्यथा प्रवृत्तिर्न स्यादिति भावः । अस्त्वेवमिति—अस्मादेवेदमनन्तरमिति तस्य कारणस्य नियमो ग्रहीतुं न शक्य इत्यर्थः । तदेवोपपादयतितदेतदिति । कारणनियमासिद्धेरिति तन्तुजातिः पटकारणमिति नियमो न सिद्ध्येदित्यर्थः । एतंज्जातीति - तन्तुजातीत्यर्थः । एकव्यक्तेरिति रासभादितुल्यत्वादिति भावः । ननु कृत्तिकाराोहण्यादावेकव्यक्तिकत्वेऽपि व्याप्तिग्रहो दृष्ट इत्यत्राह — कृत्तिकेति । तत्राप्यनयोरुदयानां भिन्नभिन्नानामनेकेषामेव व्याप्तिर्गृह्यत इत्यर्थः । एतेनेति — एकव्यक्तौ ( : ) नियमस्य (मेन) दुर्ब्रहत्वादि (त्वेने ) त्यर्थः । अनुक्तोपालम्भ इतिजात्याद्यपेक्षया जन्यजनकभावस्यानुक्तेरिति भावः । तर्हि किमुक्तमित्यत्राह — एतद्धर्मकादिति । दण्डत्वादिधर्मकात् घटत्वादिधर्मकं सरः ] -
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy