________________
सरः]
चार्वाकतर्केषु प्रागसत्त्वकोटिदूषणस्य विरुद्धभाषितत्वं
405
तत्वमुक्ताकलापः न स्वक्रियादेविरोधात् ॥ ३२॥
- सर्वार्थसिद्धिः भसंग्रहः । हेतुश्च साध्यं च हेतुसाध्यं हेतुना साध्यं वा । ईदृशानां तर्काणां युक्ताङ्गहान्यादिकमभिप्रेत्याह-नेति । साधा. रणदुष्टत्वमाह-स्वक्रियादेरिति । इह तावदनिष्टकोटिभङ्गो न प्रत्याख्येयः । अन्यत्रैवमुत्तरंगतिः—यदत्र पूर्वमसत्त्वे कार्यत्वं न स्यादिति ; तद्विरूद्धभाषितम् । प्रागसत्त्वविशेषितं सत्त्वमेव हि कार्यत्वं । तत्र च प्रागसत्त्वे प्रागसत्त्वमेव न स्यादिति वा तद्विशिष्टं न स्यादिति वा सत्त्वमानं न स्यादिति वा प्रसङ्गा
__ आनन्ददायिनी (विकल्पे) इति(त्यर्थः) भावः । कारणं किञ्चित्कारेण कार्य जनयति उत तद्विनेत्यादिविकल्प आदिशब्दार्थः । समाहारद्वन्द्व इत्याहहेतुश्चेति । 'तृतीया तत्कृतार्थेन' ‘कर्तृकरणे कृता' इति वा समास इत्याह हेतुनेति । युक्ताङ्गं- प्रागसत्त्वं । अयुक्ताङ्गस्वीकार आदिशब्दार्थः । अयुक्ताङ्गं च प्राक्सत्वकारणसंयोगादिः । दुष्टत्वं दोषः । अनिष्टकोटीति—प्राक्सत्त्वकारणप्राप्तयादिरित्यर्थः । अन्यत्र प्रागसतोऽप्राप्तस्योत्पादने । वक्ष्यमाणा उत्तरगतिः । उत्तरगतिमेवोपपादयति—यदत्रेत्यादिना। चार्वाकोऽपि घटपटादि नित्यतया तुच्छतया वा नाङ्गीकरोति । किं तु निर्हेतुकं । तत्र(तथाच)प्रागसत्त्वमनुमतमेवेति स्वमतविरुद्धभाषणमित्यर्थः । प्रकारान्तरेणापि विरुद्धतामाह-- प्रागसत्त्वविशेषितमित्यादिना। प्रागसत्त्वे कार्यत्वं न स्यादित्यत्र प्रसङ्गे