SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ 406 सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे [जडद्रव्य सर्वार्थसिद्धिः थेस्स्यात् । तत्र न प्रथमः कस्यापि स्वाभावेन व्याप्तयभावात् । अन्यथा शून्यवाद एव स्यात् अनेकान्तघादो वा । न द्वितीयः ; तदसत्त्व एव तद्विशिष्टसिद्धेः। न हि विशेषणसत्त्वं विशिष्टविरोधि ! न तृतीयः; असत्वस्य स्वकालसत्त्वेन विरोधग्रहणात् । अन्यथा देशान्तरसत्त्वेऽपि विरोधप्रसङ्गे(न) स एवान्त्यबौद्धपक्षस्स्यात् । यत्तु पश्चाद्भाविनः कारणप्राप्तिास्तीति । तत्र पौर्वापर्यनियम लक्षणा प्राप्तिदृष्टत्वादनिवार्या । संयोगादिलक्षणा तु माभूत आनन्ददायिनी कार्यत्वस्य प्रागसत्त्वविशिष्टसत्त्वस्वरूपस्य विशेषणं न स्यादिति वा विशेषणविशेष्योभयं न स्यादिति वा विशेष्यस्वरूपं न स्यादति वेति विकल्पार्थः । कस्यापीति-विशेषणस्य प्रागसत्त्वस्याभावः सत्त्वमेव । तथाच स्वाभावकाले स्वसत्त्वं स्यादिति प्रसङ्गार्थः । तथाच विरोधेन व्याप्तयभाव इत्यर्थः । अन्यथा--प्रतियोगिनः स्वाभावकालिकत्वे । एकावच्छेदेन स्वाधारसंबन्धारोप्यकतदधि (स्वाधिकरणत्वाभिमताधि) करणकव्यासज्यवृत्तिधर्मेतरधर्मावच्छिन्नस्वसमानकालिकाद्यभावप्रतियोगित्वादेः शून्यताप्रयोजकत्वादिति भावः । अनेकान्तेति --- शून्यत्वानङ्गीकारे सत्त्वासत्त्वरूपेणानेकान्तवाद इत्यर्थः । तदसत्त्व एवेतिप्रागसत्त्वरूपविशेषणसत्त्व एव प्रागसत्त्वे सति सत्त्वरूपविशिष्टसिद्धेरित्यर्थः । न हीति--- विशेषणसत्त्वस्य विशिष्टसिद्धयनुकूलत्वात् प्रागसत्त्वरूपविशेषणं तद्विशिष्टसत्त्वस्य न विरोधीत्यर्थः । अन्यथेति-असत्त्वस्य सत्त्वमात्रविरोधित्वे इत्यर्थः । कार्यस्य कारणप्राप्तिर्वक्तव्येत्यत्र यथाकथञ्चित्प्राप्तिर्वक्तव्येति उत संयोगादिलक्षणेति विकल्पमभिप्रेत्य आद्य आह–पौर्वापर्येति । द्वितीये आह–संयोगेति । प्रकाश्यदाह्या
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy