________________
404
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
जडद्रव्य
तत्वमुक्ताकलापः जन्यं जन्मा यथा वा? द्वयमसदनवस्थानकार्यक्षतिभ्यां इत्याद्यैः हेतुसाध्यं न किमपि यदि
सर्वार्थसिद्धिः दने सर्वस्मात्सर्वमुत्पद्येत । प्रकाश्यमप्राप्य वा दीपः प्रकाशयेत् दाह्यमप्राप्य वा दहनो दहेत् । पुनर्विकल्पान्तरेण विहतिमाहजन्यमिति । घटो जायत इत्येतो तावन्न पर्यायौ सह प्रयोगात् । यावद्विनाशं जायत इति प्रयोगप्रसङ्गाच्च । पटो जायत इति प्रयोगश्च न स्यात् घटपटशब्दयोरपर्यायत्वात् । अतः कार्यस्वरूपातिरिक्तं जन्म । तच्च जन्यमजन्यं वेति विकल्प्य द्वयमप्ययुक्तमित्याह-द्वयमसदिति । क्रमावाधकमाह-अनवस्थानकार्यक्षतिभ्यामिति । जन्मनो जन्यत्वं हि जननकर्मतया ! अतस्तस्यापि जन्म स्वीकर्तव्यं एवं तस्यापीत्यनवस्था । अजन्यत्वे (तु) तजन्मनोऽनादित्वात् तद्वतो घटादेरपि तथात्वं स्यात् । तथाच कार्यक्षतिस्स्यादिति । आदिशब्देन भिन्नाभिन्नत्वादिविकल्पक्षो
आनन्ददायिनी . यावद्विनाशमिति--घटस्यैव जनिधात्वर्थ(र्थत्वे)त्वात् तस्य वर्तमानत्वात् धात्वर्थवर्तमानकाले वर्तमानप्रयोगस्योचितत्वादिति भावः । पटो जायत इति-घट(स्वरूप)स्यैव जन्म(नि)त्वे तस्य पटस्वरूपत्वाभावादित्यर्थः । तस्याऽपि जन्मत्वेऽननुगम इति भावः । किञ्च घटस्वरूपस्यैव जन्मत्वे पटो जायते इति प्रयोगात् पटस्यैव घटात्मकत्वं वाच्यं ; तथाच घटपटशब्दयोः पर्यायत्वं च स्यादित्याह--घटपटशब्दयोरिति । भिन्नाभिन्नत्वादीति-कार्य कारणाद्भिन्नमभिन्नं वेति