________________
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
सर्वार्थसिद्धिः
1
ननु क्षणक्षरणस्वभावा प्रकृतिरिति हि भवत्सिद्धान्तः ! अत्र प्रतिक्षणमुदयविलयिनो विकाराः क्षणिका एवेति तद्दृष्टान्तेन अन्येषां युष्माभिः किं नानुमीयते ? इति चेत्; अशक्यत्वादयं सुहृदुपदेशस्त्यज्यते । सर्वक्षणिकत्वं साधयितुमुपक्रम्य स्थिरद्रव्यवृत्तिक्षणिकविकारवदिति कथं दृष्टान्तयेम ? तेषु च न त्वदाभिमतं क्षणिकत्वं ; प्रदीपादिवत् ' आशुतरविनाशित्वमात्रेण आनन्ददायिनी
396
[जढद्रव्य
षष्ठीसमासः । नन्विति—‘नित्या सततविक्रिया' इत्यङ्गीकारात् पूर्व - पूर्व विकाराणामुत्तरोत्तरविकारसमये नाशदिति भावः । सर्वेति -- तथाचैकदेशबाधो व्यभिचारश्चेति भावः । दृष्टान्तयेमेति -- दृष्टान्तं कुर्यं इत्यर्थः । तेषु --प्रकृतिगतविकारेषु । न त्वदभिमतमिति - उत्पत्त्यनन्तरक्षणविनाशित्वरूपं क्षणिकत्वमित्यर्थः । तथाच दृष्टान्तस्य साध्यवैकल्यमिति भावः ! प्रदीपादिवदिति - ननु तादृशं क्षणिकत्वं साध्यमस्तु; प्रदीभावप्रकाशः
1
* भवत्सिद्धान्त इति – जिज्ञासाधिकरणभाष्ये ' यच्चान्यथात्वमिति' – यद्वस्तु प्रतिक्षणमन्यथात्वं याति तदुत्तरोत्तरावस्थाप्राप्त्या पूर्वपूर्वावस्थां जहातीत्याद्युक्तेरिति भावः । न हि वस्तुस्वभावानुविधायिन्यो वाचः । किं तर्हि ? वक्तुरिच्छामनुविदधति । अत उत्पादानन्तरस्थायिस्वरूपं क्षणशब्दार्थ इत्यादिः बौद्धानां परिभाषा अप्रामाणिकी । अनुभवविरोधेन सर्वजनासंमतत्वात् । अत एव 'तास्तु त्रिंशत् क्षणः ' इत्यादिकोशेषु क्षणशब्दस्य कालविशेषवाचित्वाभिधानं संगच्छते । अतः क्षणिकशब्दो न वौद्धमतैकतान इत्यभिप्रेत्याह - 2 * आशुतरविनाशित्वमात्रेणेति । एतेन विरोधवरूथिन्यां उमा
·