SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ सरः] त्रिगुणपरीक्षायां पूर्वोक्तदृष्टान्तासिद्धयुपपादनं 395 सर्वार्थसिद्धिः योऽपि तावत्परासिद्धः स्वयं सिद्धोऽभिधीयते । भवेत्तत्र प्रतीकारः स्वतोऽसिद्धे तु का क्रिया ? अनन्यावच्छेदे (दार्थे) न स्वरूपेणैव कश्चित् क्षणशब्दवाच्य इति चेत् ; तर्हि क्षणभङ्गसाधनात्पूर्वमसिद्धः कथं दृष्टान्तस्स्यात् ? उत्तरप्रागभावाप्तपूर्व ध्वंसैककालतः । मध्यमक्षणतादृक्तं व्यवस्थाप्यं त्वयाऽप्यतः ।। आनन्ददायिनी धनमुखेन प्रतिक्रिया परिहारश्च संभवति । स्वतोऽसि (द्धौ ) द्धे स्वमत एवासि(द्धौ)द्धे । सि (द्धौ) द्धे । का प्रतिक्रिया - कः प्रतीकारः । स्वमतासिद्धस्याप्यभ्युप ? | 1 गमे अपसिद्धान्ता (पाता) दित्यर्थः स्वत इति । सार्वविभक्तिकष्षष्ठ्यर्थे तसिः । अनन्यावच्छेदेनेत्यस्य विवरणं—स्वरूपेणैवेति । कालरूप : - वस्त्वपि मास्तु ; तस्य कश्चिदुपाधिरपि माभूत् ; किन्तु स्वरूपेणैव सिद्धेषु कश्चित् क्षणो भवतु - स एव क्षणिको दृष्टान्तोऽस्त्वित्यर्थः । तहति तादृशक्षणिकः क्षणशब्दवाच्योऽनुमानात्साधनीय इति भावः । क्षणिकत्वसिद्ध्यनन्तरमेव तादृशक्षणसिद्धिमुपपादयति-उत्तरेति । क्षणसन्ततीनां मध्ये मध्यमः क्षणः पूर्वक्षणध्वंसोत्तरक्षणप्रागभावाभ्यामेक कालो भवति । तदेककालत्वमेव क्षणत्वं अतिप्रसङ्गाभावादिति त्वयाऽपि वाच्यं । तच्च क्षणिकसन्तान सिद्ध्यपेक्षं क्षणिकत्वसाधकानुमानादेव सिद्ध्यतीति न ततः पूर्वं सिद्ध्यतीत्यर्थः । मध्यमक्षणस्य तादृ (क्तुं ) शत्वं क्षण(णिक)त्वं । ' तदशिष्यं संज्ञाप्रमाणत्वादिति' ज्ञापकात्
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy