SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ सरैः] हेत्वन्तरेण क्षणभङ्गसाधनम् 369 569 तत्वमुक्ताकलापः उत्पन्नानां विनाशे ध्रुवभवितृतया हेत्वपेक्षाविहीने सर्वार्थसिद्धिः सत्तानुबन्धी विनाशः स्वरूपवत् न हेतुसापेक्षः झडित्येवापतेत् । तस्मात् क्षणिकं सर्वमित्यनूध परिहरति उत्पन्नानामिति । ___ आनन्ददायिनी तथा च विनाशः भावानामुत्पत्तिक्षणानन्तरभावी अहेतुकत्वे सति भावानामवश्यम्भावित्वात् । य(द्य)दहेतुकत्वे सति यस्यावश्यम्भावि तत्तदनन्तरक्षणभावि यथा घटस्यान्यापोह इति प्रयोगे हेत्वसिद्धिशङ्कापरिहाराय ध्वंसो (भावस्य) हेतुनिरपेक्षः तस्य ध्रुवभावित्वात् अपोहवदिति प्रयोगो द्रष्टव्यः । झडित्येव ---उत्पत्त्यनन्तरमेव । भावप्रकाशः सर्वसंस्कारनाशित्वप्रत्ययश्चानिमित्तकः ॥ ३७१ नित्यत्वेऽपि सहस्थानं विनाशेनाविरोधतः । अजातस्य हि नाशोक्तिः नैव युक्तयनुपातिनी ॥ ३७२ इत्युद्योतकराक्षेपस्य-- तदत्र कतमं नाशं परे पर्यनुयुञ्जते ? किं क्षणस्थायधर्माणं भावमेव तथोदितम् । ३७३ अथ भावस्वरूपस्य निवृत्ति ध्वंससंज्ञितम् ? पूर्वपर्यनुयोगे हि नैव किञ्चिद्विरुध्यते ॥ ३७४ यो हि भावः क्षणस्थायी विनाश इति गीयते । तं हेतुमन्तमिच्छामः पराभावात्त्वहेतुकम् ॥ ३७५ SARVARTHA. 24
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy