________________
सरः] वस्तुसाक्षात्कारतत्प्रत्यभिज्ञयोर विरुद्ध विषयाता, परोक्तबाधकविकल्पश्च 361
सर्वार्थसिद्धिः
अयं भावः - यथेदमिति तत्कालसत्ता गृह्यते तथा तदिदमिति कालद्वयसत्त्वमपि प्रत्यक्षेणैव गृहीतं । एवं सति न्यूनाधिकविषयतामात्रमिह प्रत्यक्षयोः न विरुद्धविषयत्वं अन्यथाऽतिप्रसङ्गादिति । अल्पविषयस्य प्राबल्यमालम्भविधौ दृष्टमिति चेन्न ; विरोधे सत्येव बलाबलविमर्शात् । इह तु विरोध एव न समस्ति । अपिच प्रत्यक्षं किं वर्तमानत्वेन स्वविषयं गृह्णाति उत वस्तुवृत्त्या वर्तमानम् ? नाद्यः ; त्वन्मते प्रत्यक्षतयाऽभिमतस्य निर्विकल्प
आनन्ददायिनी
विरोधिविषयत्वाद्वाधकत्वं उत न्यूनविषयत्वाद्वा ! इति विकल्पमभिप्रेत्य आद्ये आह-यथेदमिति । द्वितीय आह - अन्यथेति । विरोधि - विषयत्वाभावेऽपि न्यूनाधिकविषयतामात्रेण वाध्यबाधकभावे घट प्रत्यक्षात् घटपटसमूहालम्बनबाधप्रसङ्गादित्यर्थः । विरोधे सत्येवेति — यद्यपि न हिंस्यादग्नीषोमीयवाक्ययोर्वैयर्थ्य परिहारायान्यतरसंकोचे (कोच रूपबाधे) कर्तव्ये सामान्यस्य(अधिकविषयस्य) संकोचो युक्तः । उभर्यसाफल्यसिद्धेः; रजतभ्रमस्य न्यूनविषयस्याप्यधिकविषयशुक्तित्व नीलपृष्ठत्वरजतत्वाभावाद्यनेकविषयेणापि बाधदर्शनात् बाध्यबाधकभावे न न्यूनाधिकविषयत्वादि प्रयोजकं; तथाऽपि तदभ्युपगम्यैतदु (प्रौढवादेनो) क्तमिति द्रष्टव्यं । किञ्च वर्तमानविषयकतया क्षणिकत्व प्रत्यभिज्ञाबाधश्च त्वन्मतानुसारेण ? उत अस्मन्मतानुसारेण इति विकल्पाभिप्रायेणाह - अपिचेति । यद्वा वर्तमानज्ञानस्य (भूतादिविषय) प्रत्यभिज्ञाबाधकत्वं वर्तमानत्वरूपविरुद्धधर्मविषयत्वेन उत स्वरूपविषयत्वेन ? इति विकल्प्य दूषयति — अपिचेति । अद्येऽपि किं निर्विकल्पकं सविकल्पकं वा ? इति विकल्पमभिप्रेत्य आद्यं दूषयति- त्वन्मते इति । प्रत्यक्षतयाऽभिमतस्य प्रमाणतयाऽभिमतस्य ।